Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सन् ? इत्याह-वन्दनकमेव मूल्यं तत्र भावः-अभिप्रायो यस्य सूरेः स तथाभूतो, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः कारणवन्दनकं भवतीतिगाथार्थः । षोडशं दोषमाह-'हाउं परस्स'गाहा व्याख्या-हापयित्वा-वञ्चयित्वा परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं 'वंदंतो'त्ति दकारानुस्वारस्यालाक्षणिकत्वाद्वन्दमानस्य शिष्यस्य स्तैन्यं वन्दनकं भवति, एतदेव स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाद्यन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह'उब्भावणा मा में'त्ति नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदित्येष गाथार्थः। प्रत्यनीकत्वरुष्टत्वलक्षणदोषद्वयप्रतिपादनायाह-'आहारस्स उ'गाहा निगदसिद्धा । एकोनविंशं दोषमाह'नवि कुप्पसि'गाहा, काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदस्येवं तर्जयन् वन्दते-निर्भर्त्सयन् यत्र वन्दते तत् तर्जितमुच्यते, यदिवा मेलापकमध्ये वन्दनकं मां दापयन् तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिन इत्यभिप्रायवान् यदा शीर्षेणाङ्गल्या वा-प्रदेशिनीलक्षणया तर्जयन् गुरुं प्रणिपतन्-वन्दमानस्तजयन् वन्दते तद्वा तर्जितं भवतीतिगाथार्थः । विंशतितमं दोषमाह-वीसंभट्ठाण'गाहा, विनम्भो-विश्वासः तस्य स्थानमिदं वन्दनकं एतस्मिन् यथावदीयमाने श्रावकादयो विश्वसन्तीत्यर्थः इत्यभिप्रायेणैव सद्भावजढे-सद्भावरहितेऽन्तर्भावनाशून्ये वन्दमाने शिष्ये शठमेतद्वन्दनकं भवतीति, शठशब्दमेव पर्यायशब्दाचष्टे-'कवडंती'त्यादि सुगममिति गाथार्थः । एकविंशतितमं दोषमाह-'गणिवायग'गाहा, गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रासं हीलित्वा यत्र वन्दते तद् हीलितवन्दनकमुच्यते । द्वाविंशं दोषमाह-'दरवंदिय'मित्यादि सुबोधमितिगाथार्थः । दृष्टादृष्ट
in Educat
i onal
For Private & Personal use only
laww.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242