SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सन् ? इत्याह-वन्दनकमेव मूल्यं तत्र भावः-अभिप्रायो यस्य सूरेः स तथाभूतो, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः कारणवन्दनकं भवतीतिगाथार्थः । षोडशं दोषमाह-'हाउं परस्स'गाहा व्याख्या-हापयित्वा-वञ्चयित्वा परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं 'वंदंतो'त्ति दकारानुस्वारस्यालाक्षणिकत्वाद्वन्दमानस्य शिष्यस्य स्तैन्यं वन्दनकं भवति, एतदेव स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाद्यन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह'उब्भावणा मा में'त्ति नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदित्येष गाथार्थः। प्रत्यनीकत्वरुष्टत्वलक्षणदोषद्वयप्रतिपादनायाह-'आहारस्स उ'गाहा निगदसिद्धा । एकोनविंशं दोषमाह'नवि कुप्पसि'गाहा, काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदस्येवं तर्जयन् वन्दते-निर्भर्त्सयन् यत्र वन्दते तत् तर्जितमुच्यते, यदिवा मेलापकमध्ये वन्दनकं मां दापयन् तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिन इत्यभिप्रायवान् यदा शीर्षेणाङ्गल्या वा-प्रदेशिनीलक्षणया तर्जयन् गुरुं प्रणिपतन्-वन्दमानस्तजयन् वन्दते तद्वा तर्जितं भवतीतिगाथार्थः । विंशतितमं दोषमाह-वीसंभट्ठाण'गाहा, विनम्भो-विश्वासः तस्य स्थानमिदं वन्दनकं एतस्मिन् यथावदीयमाने श्रावकादयो विश्वसन्तीत्यर्थः इत्यभिप्रायेणैव सद्भावजढे-सद्भावरहितेऽन्तर्भावनाशून्ये वन्दमाने शिष्ये शठमेतद्वन्दनकं भवतीति, शठशब्दमेव पर्यायशब्दाचष्टे-'कवडंती'त्यादि सुगममिति गाथार्थः । एकविंशतितमं दोषमाह-'गणिवायग'गाहा, गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रासं हीलित्वा यत्र वन्दते तद् हीलितवन्दनकमुच्यते । द्वाविंशं दोषमाह-'दरवंदिय'मित्यादि सुबोधमितिगाथार्थः । दृष्टादृष्ट in Educat i onal For Private & Personal use only laww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy