SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥ ८८ ॥ Jain Education आचार्य ! भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते, किमितीत्याह-भयइ व भइस्सइ व ममेतिहेतोः, | किमुक्तं भवति ?- एष तावद्भजते- अनुवर्त्तयति मां सेवायां पतितो मे वर्त्तत इत्यर्थः अग्रे वा मम भजनं करिष्यत्यसौ ततश्वाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तद् भजमानवन्दनकमभिधीयते । त्रयोदशं दोषमाह - 'एमेव य मेत्तीए 'त्ति, एवमेवेति कोऽर्थो ? - यथा - निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्यापि हेतुभूतया कश्चिद्वन्दत एव आचार्येण सह मैत्री - प्रीतिं इच्छन् वन्दत इत्यर्थः तदिदं मैत्रीवन्दनकमुच्यते । चतुर्द्दशं दोषमाह - 'गारव'त्ति सूचामात्रत्वाद्गर्बवन्दनकमिति प्रत्येयं कथम्भूतं तदित्याह - 'सिक्खाविणीओऽहं ति, शिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतः - कुशलोऽहमित्यवगच्छन्त्वमी शेषसाध्वादय इत्यभिप्रायवान् यथावदावर्त्ताद्याराधयन् यत्र वन्दत इतिगाथार्थः । साम्प्रतं कारणलक्षणं पञ्चदशं दोषमभिधित्सुः कारणस्यैव तावलक्षणमाह - 'नाणाइतियं गाहा, ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रादि वन्दनकदानात् साधुरभिलपति तत्कारणं भवतीतिप्रतिपत्तव्यं, ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याशङ्कयाह-यदि पूजार्थं गौरवार्थ च वन्दते, वन्दनकं दत्त्वा विनयपूर्वकं श्रुतं गृह्णामि येन लोके पूज्योऽन्येभ्यश्च श्रुतधरेभ्योऽधिकतरो भवामीति अभिप्रायवान् यदि ज्ञानग्रहणेऽपि वन्दते तदा तदप्येवमेव कारणमेव भवतीतिगाथार्थः । तत्र किमभिप्रायवत इहलोकसाधकं कारणं भवतीत्याह'आयरतरएण' गाहा, हंदीति इहलोकसाधककारणोपप्रदर्शने, अतिशयादरेण वन्दे -प्रणमाम्येनमाचार्य तेन च वन्दनप्रदा नेन हेतुभूतेन पश्चादमुं किञ्चिद्वस्त्रादि प्रणयिष्ये- याचिष्ये, न चासौ मम प्रणयभङ्गं - प्रार्थनाभङ्कं करिष्यति, कथम्भूतः For Private & Personal Use Only कृतिकर्मविचार: ॥ ८८ ॥ jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy