SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Jain Educa दुष्टमिदं, एतच्च वृत्तिकृता अन्यथा व्याख्यातं तत्त्वं तु विशिष्टश्रुतविदो विदन्तीति, सप्तमं दोषमाह-स्थितस्योर्द्धस्थानेन | 'तेत्तीसन्नयराए' इत्यादि सूत्रमुच्चारयतः, उपविष्टस्य वाऽऽसीनस्य अहोकायं काय इत्यादिसूत्रं भणतः कच्छपस्येव - जलचरजीव - | विशेषस्येव रिङ्गनं- अग्रतोऽभिमुखं प्रागभिमुखं च यत्किञ्चिच्चलनं तद्यत्र करोति शिष्यः तदिदं कच्छपरिङ्गितं नामेति गाथार्थः । अष्टमं दोषमाह-'उट्टंतनिवेसिंतो' गाहा, उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते - उद्वेलयति यत्र तन्मत्स्योद्वृत्तं | अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दनार्ह कश्चन वन्दितुमिच्छंस्तत्समीपे जिगमिषुरुपविष्ट एव झष | इव-मत्स्य इव त्वरितमङ्गं परावृत्त्य यत्र गच्छति तद्वा मत्स्योद्वृत्तं इत्थं च यदङ्गपरावर्त्तनं तद्रेचकावर्त्त इत्यभिधीयत इति | गाथार्थः । नवममाह - 'अप्पपरपच्चएणं' गाहा, मनःप्रद्वेषोऽनेकोत्थानः - अनेकनिमित्तो भवति, स च सर्वोऽपि आत्मप्रत्ययेन परप्रत्ययेन वा स्यात्, तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित्परुषमभिहितो भवतीति, परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरन्यैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनसः प्रद्वेषो भवति यत्र तन्मनसा प्रदुष्टमुच्यते । दशमं दोषमाह - 'पंचेव वेइआओ'त्ति जानुनोरुपरि हस्तौ निवेश्याधो वेत्यादिना वृत्तिकृता याः पञ्चैव वेदिका निदर्शितास्ताः शिष्यो यत्र करोति तद्वेदिकाबद्धं भण्यते । एकादशं दोषमाह-'भयंति निज्जूहणाईअं'ति निर्ज्जहणं गच्छान्निष्काशनं तदादिकं यद्भयं तेन यत्र वन्दते तद् भयवन्दनकमाख्यायते इति सम्भवतः साध्याहारं सर्वत्र व्याख्येयं सूचामात्रत्वात्सूत्रस्येतिगाथार्थः । द्वादशं दोषमाह - 'भयइ व भइस्सर वगाहा, स्मर्त्तव्यं भो १ रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते इति वृत्तौ । mational For Private & Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy