SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कृतिकर्म आव० हारि० टीप्पणं विचार ॥८७॥ इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति, क इव यथा किमुज्झतीत्याह-'कयकिच्चो वक्खरं चेवत्ति, एतदुक्तं भवति यदा केनचिदाटकेन कुतश्चिन्नगरान्नगरान्तरे 'वक्खरं' भाण्डमुपनीतं, वक्खरस्वामिना च भाटिकोऽभिहितः-प्रतीक्षस्व कञ्चित्कालं यावदस्य वक्खरस्यावतरणाय स्थानं किञ्चिदन्वेषयामि, स प्राह-मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तं अतः कृतकृत्यत्वान्नातः परं प्रतीक्षेऽहमित्युक्त्वाऽस्थान एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थान एव वन्दनक परित्यज्य नश्यति इत्येतावता दृष्टान्त इति गाथार्थः। चतुर्थ दोषमाह-संपिडिए व'गाहा, यत्र संपिण्डितान-एकत्रमिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् २ तत् परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोच्चारणगर्भाणि करणानि-करचरणादीनि संपिण्डितानि-अव्यवच्छिनानि वचनकरणानि यस्य स तथा, उर्वोरुपरि हस्तौ व्यवस्थाप्य संपिण्डितकरचरणौ अव्यक्तसूत्रोच्चारणपुरस्सरं यत्र वन्दते तद्वा परिपिण्डितमिति भावः । पञ्चमं दोषमाह-उत्ष्वष्कणं-अग्रतः सरणं अभिष्वष्कणं-पश्चादपसरणं ते उत्ष्वष्कणाभिष्वष्कणे टोलवत्-तिड्डवद् उत्प्लुत्य २ करोति यत्र तट्टोलगतिवन्दनकमिति गाथार्थः । षष्ठं दोषमाह-'उवगरणे'गाहा, यत्राङ्कशेन गजमिव शिष्य आचार्यमूर्द्धस्थितं शयितं प्रयोजनान्तरव्यग्रं चोपकरणे-चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनदानार्थमासने उपवेशयति तदङ्कशवन्दनकमुच्यते, न हि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति, अविनयत्वात् , किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैर्विनयपूर्वमिदमुच्यते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीत्यतो दोष ॥८७॥ Jain Educational For Privale & Personal use only jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy