________________
कृतोच्चार्य न व्याख्याता अतो यथावैषम्यमेताः काश्चित्किश्चिद्विब्रियन्ते-'आयरकरणं गाहा, आदरः-सम्भ्रमस्तस्करणमादृतता सा यत्र न भवति तदनादृतमुच्यते, द्वितीयदोषमाह-स्तब्धत्वं तद्रव्यतो भावतश्च भवति, अत्र चतुर्भङ्गिका, तद्यथा
द्रव्यतः स्तब्धो न भावतो, भावतः स्तब्धो न द्रव्यतः, अन्यस्तु न द्रव्यतो नापि भावत इति, अत्र च भङ्गचतुष्टयेऽपि चरमो |भङ्गः शुद्धः, शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव द्रव्यतस्तु भजनीयः उदरपृष्ठशूलव्यथादिबाधितोऽवनामं कर्तुं न शक्तः कारणिकः स्यादपि स्तब्धो न तु निष्कारणिक अत एवाह-दबतो भइतोत्तीति गाथार्थः । तृतीयं दोषमाह-'पविद्धमणुवयारंगाहा, प्रविद्धं नाम यदुपचाररहितं, एतदेव व्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन्-दददनियन्त्रितो भवति-अनवस्थित कइवयंति अ सढयावि अ हुंति एगट्ठी ॥ ६७ ॥ गणि वायग जिटुज्जत्ति हीलिअंकिंनु मे पणमिऊणं है । दरवंदिअंमि विकहं करेइ पलिउंचिरं एअं॥ ६८ ॥ अंतरिओ तमसे वा न वंदई वंदई उ दीसंतो । एअं दिट्ठमदिढे सिंगं पुण कुंभपासेहिं ॥ ६९॥ करमिव मन्नइ दितो बंदणयं आरहंतिअकरुत्ति । लोइअकराउ मुक्का न मुच्चिमो वंदणकरस्स ॥ ७० ॥ आलिद्धमणालिद्धं रयहरणसीसेहिं होइ चउभंगो । वयणक्खरेहिं ऊणं जहन्नकालेव सेसेहिं ।। ७१ ॥ दाऊण बंदणं मत्थएण बंदामि चूलिआ एसा । मूउब्व सदरहिओ जं वंदइ मूअगं तं तु ॥७२॥ ढगुरसरेण जो पुण सुत्तं घोसेइ ढड्रं तमिह । चडुलिं व गिण्हिऊणं रयहरणं होइ चडुलिं तु ॥७३॥ न दृश्यन्त आधुनिकावश्यकटीकादशेष्वेता गाथाः, "वृत्तिकृतोच्चार्य न व्याख्याता" इति श्रीपूज्यटीप्पणकारवचनेनाभवन्नेताः प्राचीनादर्शेषु इत्यनुमीयते, ततः प्रवचनसारोद्धारादत्र लिखिताः, अत्रत्यं प्रायः तद्विवरणमपि प्रवचनसारोद्धारटीकाक्षरसदृशमिति, यद्यपि वन्दनकदोषप्रतिपादिका गाथास्तद्विवरणं चाधुनातनादर्शेषु दृश्यन्ते तदनुसारेणैव च श्रीमन्तः खयमपि अङ्कुशादिदोषेष्वनुवदन्ति सविवृतीस्ताः परं दोषखरूपनिरूपकगाथानाभभाव एव तत्र ।
Jain Educatiotional
For Private & Personal Use Only
O
ww.jainelibrary.org