________________
आव० हारि० टीप्पणं
कृतिकर्मविचारः
॥८९॥
dन तु माञ्चतिपदयायामालपकमवतर
दोषं शृङ्गदोषं चाह-'अंतरिओ'गाहा, बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः तमसि वा-सान्धकारप्रदेशे व्यवस्थितो मौनं विधायोपविश्य वाऽऽस्ते न तु वन्दते दृश्यमानस्तु वन्दते एतदुष्टादृष्टं वन्दनकमभिधीयते, 'सिंगं पुण कुंभपासेहिति कुम्भशब्देनेह ललाटमुच्यते तस्य पाश्वी-वामदक्षिणरूपी ताभ्यां यद्ददाति तद्वन्दनक शृङ्गमुच्यते, एतदुक्तं भवति-अहोकायं कायमित्यादिआवर्तान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति किन्तु ललाटस्य वामपार्श्व दक्षिणपार्श्व वा स्पृशतीतिगाथार्थः, गाथापूर्वार्द्धन करलक्षणं पश्चाद्धेन तु मोचनलक्षणं दोषमाह-करमिव'गाहा, निगदसिद्धा। सप्तविंशं दोषमाह-'आलिडमणालिद्धंगाहा, आश्लिष्टमनाश्लिष्टं चेतिपदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भगिका भवति, सा च अहोकायं काय इत्याद्यावर्त्तकाले सम्भवति, रजोहरणं कराभ्यामाश्लेषयति शिरश्चेत्यादिना वृत्तिकृता दर्शितैव, अत्र प्रथमभङ्गस्य शुद्धत्वाच्छेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनकमवतरति । अष्टाविंशं दोषमाह-वचनं-वाक्यं क्रियान्ताक्षरसमूहात्मकं तेनाक्षरैर्वा एकद्व्यादिभिः हीनं-न्यूनमुच्यते, यदिवा 'जहन्नकाले व सेसेहिति यदि पुनः कश्चिदत्युत्सुकः प्रमादितया जघन्येनैव-अतिस्वल्पेनैव कालेन वन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरपि-अवनामादिभिरावश्यकैयूनं भवतीतिगाथार्थः। 'दाऊणं गाहा ढड्डर'गाहा चूलिकादिदोषचतुष्टयप्रतिपादकं गाथाद्वितयमप्येतन्निगदसिद्धं वृत्तिकृयाख्यानानुसारतश्च विवेचनीयमिति ॥ वन्दनकाध्ययनमिदमुच्यते तत्र वन्दनकार्थो निरूपितः, साम्प्रतमध्ययनशब्दार्थस्यावसरस्तत्राह-'अत्रान्तरेऽध्ययनार्थ'इत्यादि (५४६-७)। 'प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरण'मित्यादि (५४७-१२), तच्छब्देनेह रजोहरणं परामृश्यते, न केवलं तल्ललाटं चेतियोगः, शेषं सुगमं ।।
ESAKASEARC CMCCC
॥८९॥
Jain Education inte
For Privale & Personal Use Only
Hrinelibrary.org