________________
'ततो विनेयः प्रणम्यैवं क्षमयित्वे'त्यादि (५४७-२१), तत्र शोधयन्निति कोऽर्थः ?-शोधयिष्यन्नित्युक्तं वेदितव्यं, केन ?-प्रायश्चित्तेन, कथम्भूतेन ?-आलोचनाhण प्रतिक्रमणार्हेण च, तत्र “खमासमणाणं देवसियाए आसायणाए" इत आरभ्य यावत् "जो मे अइआरो कओ” इत्येषा आलोचनाहप्रायश्चित्तेन शुद्धिः, अनेन ह्येतावत्प्रमाणेनानन्तरमेव वक्ष्यमाणसूत्रेण किलातिचारं गुरोरालोचयिष्यति-निवेदयिष्यतीत्यर्थः, "तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामीति"एषा तु प्रतिक्रमणाहप्रायश्चित्तशुद्धिः, अनेन हि किलातिचारान्प्रतिक्रम्याकरणतयाभ्युत्तिष्ठतीति । यथाऽर्थों व्यवस्थित'इत्यादि (५४७-२२) वन्दनकदातुरात्मनश्चेतसि व्यवस्थितोऽर्थो गुरोः स्वकीयमतिचारमालोच्य तस्मात्प्रतिक्रमणीयं मयेत्येवंलक्षणस्तं “आवस्सियाए पडिकमामि खमासमणाण"मित्यादिसूत्रोच्चारणरूपेण क्रियाद्वारेण प्रदिदर्शयिषुर्निक्रामत्यवग्रहादिति भावार्थः । 'अधुनेहभवान्यभवगतातीते'त्यादि (५४८-६), अनागतकाले कथमाशातनासम्भव इति चेदुच्यते-कल्येऽस्य सूरेरिदमनिष्टमहं करिष्यामीति चिन्तातः सम्भवत्येव, इहभवे तावदित्थं भवान्तरेऽपि तद्विधनिदानादिकरणसम्भवाद् घटत एवेति । 'इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्त' इत्यादि (५४९-२०), सूत्रेऽपि किल 'चउसिर'मित्यत्र वारद्वयशिरोनमनलक्षणो वन्द्यगतोऽपि विधिरुतोऽतः प्रायोग्रहणमकारि, स्यान्मतिः-'चउसिर'मितिनियुक्तिकृता प्रोक्तं न सूत्र इति, सत्यमिदं, किन्तु नियुक्तिकृता सूत्राभिप्रायस्यैव व्यक्तीकृतत्वाददोष इति समाप्तं वन्दनकाध्ययनमिति ।
Jain Educatio
n
al
For Privale & Personal use only
A
ww.jainelibrary.org