________________
आव ० हारि०
टीप्पणं
॥ ९० ॥
Jain Education In
इदानीं प्रतिक्रमणाध्ययनमारभ्यते
तत्र 'स्वस्थानाद्यत्परस्थान' मित्यादिश्लोको ( ५५१ - ६ ), व्याख्या - यदिति यस्मादसौ प्रतिक्रामक: स्वस्थानात्शुभयोगलक्षणात् परस्थानं - अशुभयोगलक्षणं प्रमादवशेन गतस्तस्मात्तत्रैव - शुभयोगलक्षणे स्वस्थाने यत् क्रमणं - गमनं तत्प्रतिक्रमणमुच्यते । 'अक्खोडभंगपरिहारण' त्ति अक्खोडं - लाङ्गलादिभिरक्षुण्णं जनपदानाक्रान्तभूमण्डलमुच्यते तद् ये भञ्जन्ति- लाङ्गलादिभिराक्रामन्ति तत्प्रथमतया वासयन्तीतियावत् निपातनात्ते अक्खोडभङ्गास्तेषामनुग्रहेण परिहरणा राज - | देयभूमिकरादेरितिगम्यते, ये हि तत्प्रथमतया नगरनिवेशे राजादेशादिनाऽन्यतः कुतश्चिदागत्य तत्रावसथानि कुर्वन्ति भूमीश्च खिलाः खेटयन्ति तेषां राजाऽनुग्रहेण करं मुञ्चति, साम्प्रतमपि वरुकभञ्जका इति संज्ञया पल्लिकादिस्थानेषु रूढा एवामी इत्येषाऽनुग्रहपरिहरणेति । 'एगाए अविरइआए परायं जंतियाएं' इत्यादि ( ५६० - ९ ), कथानिका - एकया कयाचिद् योषिता 'पगयं'ति विवाहाद्युत्सवं कञ्चिद् गच्छन्त्या कस्यचित्समीपे सुवर्णकटकद्वयं याचितं, तेनापि 'रुवएहिं बंधएण'त्ति बन्धकशब्देनेह ग्रहणकमुच्यते, ततश्चायमर्थः - तन्मूल्यप्रमाणान् रूपकान् ग्रहणके धृत्वा कटकद्वयं दत्तं, इतर| याऽपि योषिता ते कटके निजदुहितुर्हस्ते क्षिप्ते, ततश्च वृत्तेऽपि तस्मिन्प्रकरणे विस्मरणादिना न तया कटकस्वामिनः कटके समर्पिते, शेषं सुगमं । 'आभोगे जाणतेण 'गाहा ( ५६४ -८), ज्ञात्वाप्य कार्यासेवनमा भोगस्तस्मिन्नाभोगे सति प्रतिक्रमणं भवतीतिसम्बन्धः कस्य ? - जानानेन योऽतिचारः कृतस्तस्य, क्व सति ? - पुनर्जातेऽनुतापे सति, 'अजाणया इयरो'त्ति ॥ ९० ॥ इतर :- अनाभोगोऽजानानस्याकार्य्यमासेवमानस्य भवतीतिगाथार्थः । अस्या एव गाथाया 'इयरो' त्ति चरमावयवं किञ्चिद्विषमं
For Private & Personal Use Only
प्रतिक्र
मणा
jainelibrary.ora