________________
मन्यमानो वृत्तिकृद्विवृणोति-'अनाभोग'इति (५६४-९), प्रथमैकवचनान्तपदेन सहसाकारे इत्येतत्सप्तम्येकवचनान्तं पदं मन्तव्यमिति, 'इत्थंलक्षण'इति 'पुचिं अपासिऊण'मित्याद्यनन्तरं वक्ष्यमाणलक्षणे सहसाकारे प्रतिक्रमणं भवतीति हृदयं, क्वचित्त्वनाभोग इतिपदं विसर्गरहितं कृत्वा अनाभोगसहसगारे इत्थंलक्षण इति पाठो दृश्यते स चाशुद्ध एवेति लक्ष्यत इति । 'बीओ विही अणागयपरित्ताणे भाणियचो त्ति (५६९-७) मदीयौषधस्यैकस्तावदेष विधिः यदुत रोगेs सति रूपलावण्यादीन् करोति तथा द्वितीयोऽप्यनागतरोगपरित्राणे विधिर्वाच्यः, अनेनौषधेनोपयुक्तेन अनागता अपि रोगा न प्रादुर्भवन्तीत्यपि वाच्यमित्यभिप्राय इति । 'अरहंता ताव तहिंगाहा 'अणुभावं'गाहा (५७०-७) व्याख्याअर्हत्सिद्धादिषु मध्येऽर्हन्तस्तावद् भावलोकस्योत्तमा भवन्ति, कस्माद् ?-'यदिति यस्मादौदयिकस्य भावस्य नियमात् ते उत्तमा भवन्तीति द्वितीयगाथापर्यन्ते सम्बन्धः, औदयिको हि भावस्तेषां सर्वदेवोत्तमो भवतीत्यर्थः, किं कृत्वा ?-अनुभावं-रसं प्रतीत्य-तदुदयमाश्रित्येत्यर्थः, केषां सम्बन्धी योऽनुभाव इत्याह-आर्षत्वेन वचनादिव्यत्ययावेदनीयायुर्नामगोत्राणां, कथम्भूतानां ?-सर्वासां कर्मप्रकृतीनां मध्ये प्रशस्तानां, वेदनीयादीनि हि भवोपग्राहीणि, घातिकापेक्षया स्वरूपेणैव प्रशस्तानि, विशेषतस्तीर्थकृतां शुभानुभावान्येव भवन्तीति गाथाद्वयार्थः । भवोपग्राहिमूलप्रकृतिचतुष्टयापेक्षमुत्तम-1 त्वमभिधाय तदुत्तरप्रकृत्यपेक्षयवाह-एवं चेत्यादि ( ५७०-८) सुगम । क्षायिकभावापेक्षमहतामुत्तमत्वं प्रतिपिपादयिषुः 'खाइयभावस्स पुणो'इत्यादि (५७०-१४) सार्द्धगाथामाह, व्याख्या-क्षायिकभावलक्षणस्य लोकस्य नियमात्ते उत्तमा | |भवन्तीति गाथाचरमान्ते योगः, व सतीत्याह-भावक्षये-भावतः-परमार्थतो योऽसौ क्षयस्तस्मिन्सति न पुनः "ज्ञानिनो धर्म
आ.१६ Jain Educatio
n
al
For Private & Personal Use Only
Www.jainelibrary.org