________________
त्यादिलक्षणे भिक्षायां-गोचरचर्यायां भक्तार्थे-भोजने भोजनमण्डल्यामितियावत् आगमने-उपाश्रयप्रवेशलक्षणे निर्गमनेउपाश्रयबहिनिर्गमनलक्षणे स्थाने-कायोत्सर्गे निषदने-उपवेशने त्वग्वर्त्तने-शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः, ततश्चैतेषु आवश्यकादिषु विषये देशावसन्नो भवतीतिशेषः, कदा? इत्याह-"आवस्सयाइआई न करे अहवावि हीणमहियाई"ति, यदैतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोति अथवा हीनाधिकानि करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र हृदयं-यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिकादिदोषदुष्टं वा करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणामपि न करोति दोषदुष्टां वा करोति ध्यानं-शुभं "किं मे कडं किच्चमकिच्चसेसं किं सकणिज्ज न समायरामी'त्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभं वा ध्यायति, आलस्योपहतः सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति, अनेषणीयं वा गृह्णाति भक्तार्थ मण्डल्यां न भुते कदाचिद्वा भुड़े मण्डलीसम्बन्धिसंयोजनादिदोषदुष्टं वा भुङ्क्ते, आगमने नैषधिक्यादिसामाचारी न करोति, निर्गमनेऽप्यावश्यक्यादिसामाचारी न करोति, कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति, निषदनशयनयोः संदंशभूप्रमार्जनादिसामाचारी न करोति सम्यग्वा न करोति, "गुरुवयण बलाइ तह"त्ति तथा सामाचारीवितथाचरणादिकारणेष्वावश्यकवेलादौ | सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा प्रेरितस्तद्वचनं प्रतिवलयति-अभिमुखीभूय आलजालान्यसम्बरद्धानि वक्ति न पुनस्तद्वचः सम्यक् प्रतिपद्यते स एष भणितोऽवसन्नो देशतः, उपलक्षणं चेदं ततः स्खलितेषु मिथ्या-1
दुष्कृतं न ददाति गुरुवैयावृत्त्यं न करोति संवरणादिषु वन्दनकं न ददाति आदाननिक्षेपादिषु प्रत्युप्रेक्षणप्रमार्जने न
तथा सामावति-अभिमुखावतः स्खलित ने
JanEducation international
For Private
Personal Use Only