SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ इत्याह-"समये"त्यादि जघन्यान्तरकालस्तृतीयसमये दिवि संघातयतो विज्ञेयः, कस्य ?-समयमेकं विकुळ मृतस्य, यो ह्यौ-IP दारिकशरीरी समयमेकं वैक्रियसंघातं कृत्वा मृतः सन् समयमेकं विग्रहं च विधाय तृतीयसमये दिवं गत्वा संघातयति तत्सम्बन्धिनः सङ्घातद्वयस्य विग्रहसमयोऽन्तरे प्राप्यत इति भावना, अथवेदमेवान्तरं प्रकारान्तरेणाह-तृतीये वा समये मृतस्य तृतीयसमये सङ्घातयत इति सम्बध्यते, एतदुक्तं भवति-यः कश्चिदिहौदारिकशरीरी वैक्रियलब्धिमान् वैक्रियशरीरमारभ्य प्रथमसमये सङ्घातं विधत्ते द्वितीयसमये च सङ्घातपरिशाटौ तृतीयसमये बियते तस्मिन्नेव च तृतीयसमये निर्विग्रहेण सुरलोकमवाप्य वैक्रियसङ्घातं करोति तस्य जन्तोः सम्बन्धिनः सङ्घातद्वयस्यान्तरे सङ्घातपरिशाटसमयः प्राप्यत इति गाथार्थः । “ततिए व मयस्स ततियंमि"त्ति एतद्गाथादलं किश्चिदुरवबोधमिति सम्प्रधार्य भावनामात्रमाह वृत्तिकारःअविग्रहेण सङ्घातयत इत्यादि भावितमेवेति, साम्प्रतमुभयस्य परिशाटस्य चान्तरकालभावनामाह-'उभयस्सेत्यादि गाथा (४६१-१७), व्याख्या-उभयस्य-वैक्रियसम्बन्धिनः संघाटपरिशाटलक्षणस्य समय एको जघन्यमन्तरमित्यध्याहारः, कस्य जन्तोरिदमवाप्यते ? इत्याह-चिरमन्तर्मुहूर्त्तमानं कालं विकुळ वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः सङ्घातसमयोऽन्तरे प्राप्यते, अयमत्र भावार्थः-य औदारिकशरीरी वैक्रियलब्धिमानारचितवैक्रियशरीरः परिपूर्ण मनुष्यवैक्रियशरीरस्थितिकालं यावत्सङ्घातपरिसाटौ विधाय घियतेऽविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रि- | यसङ्घातं करोति द्वितीयादिसमयेषु तु संघातपरिशाटौ तत्सम्बन्धिन उभयस्य चान्तरे स एवानन्तरोक्तः संघातसमयो भवजातीति, ननु यद्येवं "चिरवेउवियमयस्से"त्यत्र चिरग्रहणमपार्थकम् , इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रिय SCIENCACCOACECAMORORE तर्मुहर्तमानं कालदपरिशाटलक्षणस्य समय भावनामाह-' Jain Education Alona For Privale & Personal use only W w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy