SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पणं करणवक्तव्यता ॥७२॥ *SAAAAAAAA सङ्घातपरिशाटौ कृत्वाऽविग्रहेण दिवि समुत्पद्यते तेनैव प्रयोजनं, किं चिरशब्दविशेषणेन ?, सत्यं, किन्तु प्रथमसमयेऽपि मरणनिषेधार्थमित्थमुक्त, यदिवाऽनन्तरं वैक्रियसङ्घातान्तरं भावयता सप्रयोजनत्वाद् द्वितीयादिसमयेष्वाकस्मिकमसमाप्त-1 वैक्रियस्यापि मरणमुक्तं अत्र त्वसमाप्तवैक्रियस्यापि मरणनिदर्शने न किश्चित्प्रयोजनमिति ख्यापनार्थ चिरग्रहणेन परिपपर्णान्तमौहर्तिकमनुष्यादिवैक्रियस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः। 'साडस्संतोमुहुत्तो'त्ति, एकदा वैक्रिय सर्वशाटं कृत्वा पुनरपि तत्सर्वशाटं कुर्वतोऽन्तर्मुहर्त्त जघन्यमन्तरं भवति, कथमिति चेद् ? उच्यते-कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कस्मिंश्चित्प्रयोजने वैक्रियशरीरमारभ्यान्तर्मुहूर्त तथैवावस्थितिं विधाय चरमसमये तत्सर्वशाट कृत्वा पुनरप्यौदारिकमाश्रयति, ततस्तत्रान्तर्मुहूर्त स्थित्वा पुनरप्युत्पन्ने प्रयोजने वैक्रियं निवर्त्तयत्यन्तर्मुहूर्त च तत्र स्थितिं कृत्वा पुनरप्यौदारिकमागच्छंश्चरमसमये वैक्रियसपरिशाटं करोति, एवं सति शाटद्वयस्यान्तरे समयोनमन्तर्मुहर्तद्वयं भवति, तेन च द्वयेनापि लघुत्वादेकमेव पुष्टतरमन्तर्मुहूर्त निष्पद्यते अतो युज्यते जघन्यशाटान्तरमन्तर्मुहूर्त्तमिति, सङ्घातादित्रयस्याप्युत्कृष्टमन्तरमाह-'तिण्हवि तरुकालमुक्कोसं'ति, यदा कश्चिज्जीवो वैक्रियशरीरस्य सङ्घातादित्रयं कृत्वा वनस्पतिषूत्पन्नः तत्र चानन्तकालमतिवाह्य तत उद्वत्तः पुनरपि क्वचिद्वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति तदा तत्सम्बन्धिनः। संघातपरिशाटोभयलक्षणस्य त्रयस्याप्यन्तरे स एव वनस्पतिकालो भवतीतिगाथार्थः। 'ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयत' इति (४६२-२०), एतदुक्तं भवति-पूर्व हि "जीवमजीवे पाओगियं त्वि"त्यादि ब्रुवता अजीवे-कुसुम्भादौ 1 करणमजीवकरणमिति सप्तमीतत्पुरुषः सूचितः, इह तु जीवप्रयोगात्करणं जीवप्रयोगकरणमिति पञ्चमीतत्पुरुष इत्येतावन्मा ॥७२॥ Jain Educationin For Private & Personal use only KAnjainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy