SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ALASANA+ARSASK*%86 त्रेण भेदः । 'तदिह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वा'दित्यादि (४६२-२६), व्यज्यते-घटाकाशं पटाकाशमित्यादिव्यपदेशैर्विशेषणद्वारेण प्रकटीक्रियते क्षेत्रममीभिरिति व्यञ्जनं पुद्गलाः घटपटशकटलकुटादयः तत्सम्बन्धा'दिति व्यञ्जनसम्बन्धात् पर्यायमापन्नं व्यञ्जनपर्यायापन्नं, एतदुक्तं भवति-यदैकस्मिन्नभोदेशे व्यवस्थितो रक्तो घटः प्रयोगान्तरेण शुक्लीक्रियते तदा पूर्व तन्नभो रक्तघटसम्बद्धमासीत् पश्चात्तदेव शुक्लघटसम्बद्धमभूद्, एवं च सति स शुक्लगुणलक्षणः पर्यायो वस्तुवृत्त्या तस्यैव नभस उत्पन्नः, एवमन्यस्यापि पुद्गलराशेयः प्रतिक्षणं पर्यायसमूहः समुत्पद्यते तमापन्नं नभो यदा विवक्ष्यते तदा नभसोऽप्यस्ति करणं, तथापि पर्यायस्यैव करणं न व्योम्न इति चेदित्याह-'पर्यायो द्रव्यानन्य'इति (४६२-२७), तस्मिन्कृते द्रव्यमपि कृतमेव भवति, यदिवा किमनेन कष्टोत्तरेण, लौकिकादेवोपचारासिध्यति क्षेत्रस्य 8 करणं, सम्भवन्ति ह्येवं वक्तारो लोकाः-इक्षुक्षेत्रं शालिक्षेत्रं वा मया कृतमिति, एतदर्शयति-'उपचारमात्राद्धे'त्यादि (४६३-१)। अथ यदा वर्तनास्वरूपः कालो विवक्ष्यते तदा वर्तनादीनां स्वयमेव भावान्मा भूत् कालस्य करणं यदा त्वर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादिरूपः कालो विवक्ष्यते तदा तस्य परकृतत्वात्करणत्वं भविष्यतीत्याह-समयाद्यपेक्षायां चापरोपादानत्वादिति (४६३-५), न हि समयादिरूपस्यापि कालस्योपादानभूतः-कारणभूतः कश्चनापि |परो विद्यते, तदा तस्य परकृतत्वात्करणत्वं भविष्यतीत्याह-तस्यापि स्वरससिद्धत्त्वात्कुतः करणतेतिभावार्थः। 'बवं च बालवं चेत्यादि (४६३-१०), इयमत्र भावना-कृष्णचतुर्दशीरात्रौ शकुनिर्नामावस्थितं करणं भवति, अमावास्याया-3 महि चतुष्पदं रात्री नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं, एतानि चत्वार्यप्यवस्थितानि करणान्युच्यन्ते, एतास्वेव तिथिषु 34OCRACASSACRACANCIES आ०१३ For Private & Personal Use Only Diww.ininelibrary.orl
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy