SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं NROERMSANSARDAR भवन्तीतिकृत्वा, तस्या एव शुक्लप्रतिपदो रात्री बवनामा करणं भवति, इदं चानवस्थितम् , एतस्यामन्यासु च तिथिषु करणवभावाद्, एवं शेषेष्वपि बालवादिष्वनवस्थितत्वमवसेयं, एवं शुक्ल द्वितीयायां दिवा बालवं रात्रौ कौलवं तृतीयायां दिवा तव्यता थीविलोयणं रात्रौ गरमित्येवमेकैकस्यां तिथौ क्रमेण करणद्वयं २ पुनरावृत्त्यापि तावज्ज्ञेयं यावत्कृष्णपक्षचतुर्दश्यां दिवा विष्टिस्ततस्तन्निशाया आरभ्य पुनरप्यवस्थितानि तान्येव शकुन्यादीनि तावद्यावत् सितपक्षप्रतिपदि दिवा किंस्तुघ्नमित्यादि पुनस्तदेवावर्त्तते । 'पक्खतिहीओ दुगुणिया इत्याद्यानयनोपायोऽप्यवस्थितकरणभोग्यतिथिभ्योऽन्यतिथिषु द्रष्टव्यः, तास्ववस्थितकरणानामेव सिद्धत्वादिति । 'सत्तमिचाउद्दसी य अह विहित्ति (४६३-१९), कृष्णसप्तम्यां चतुर्दश्यां * चाह्नि विष्टिर्भवतीत्यर्थः। 'इदमेवमितीति (४६४-१४ ), इदं-श्रुतमेवं-बद्धाबद्धभेदभिन्नं लौकिकलोकोत्तरभेदं द्रष्टव्यं, लौकिकं बद्धाबद्धं लोकोत्तरं चेत्यर्थः । 'शास्त्रोपदेशव'दिति (४६४-१५), शास्त्ररूपः उपदेशः शास्त्रोपदेशः-आचारादिः तद्वदिति । 'भूतापरिणते'त्यादि (४६४-२१), भूतापरिणतविगतशब्दैर्यथासङ्ख्यमुत्पादध्रौव्यव्यया उच्यन्ते तेषां यच्छब्दकरणं-भणनं प्रतिपादनमित्यर्थः तत्प्रकाशोपदिश्यमानत्वादनिषीथमिति भावार्थः । 'सट्टीएयरुज्झाय'त्ति (४६५-१२) सट्टीयरौ-मातृष्वसृजातौ भ्रातरौ उपाध्यायौ-पूर्वावस्थायामध्यापकब्राह्मणौ ततः कर्मधारय इति । 'बत्तीसं अड्डीयाओ' इत्यादि (४६५-१८), अड्डिकाप्रत्यडिकाश्च धनुर्धराणां स्थानविशेषा लोकप्रतीताः, तत्प्रतीताः पाठविशेषा वा इत्यन्ये, ४ करणानि-नर्त्तक्यादीनामालीढादीन्यपि धनुर्द्धरादीनामेव स्थानानि वैशिष्ट्याच्च कुतश्चित्पृथगुपात्तानि । 'भावश्रुतशब्द-15 करणेऽधिकारो भवति कर्त्तव्य'इति (४६६-२०), भावश्रुतं च शब्दश्च तद्रूपकरणं भावश्रुतशब्दकरणं, तत्र भाव-18 RECALLIECESSARALA Jain Education For Privale & Personal use only S r.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy