________________
श्रुतमन्त ल्पाकारं श्रुतोपयोगरूपं, शब्दकरणं तु नात्र करेमि भंते ! सामाइयं सर्व सावजं जोगमित्यादिसामायिकशब्दोच्चारणं निरुपयोगस्य सम्बन्धि गृह्यते, किं तर्हि गृह्यते ? इति चेदित्याह-तच्छन्दविशिष्टः श्रुतभाव एवेति(४६६-२१),
तस्य-सामायिकस्य अभिधायकत्वेन सम्बन्धी यः शब्दः-करेमि भंते ! सामायिकमित्यादिस्तेन विशिष्टो-युक्तः श्रुतभाव दिएवेति गृह्यते, तत इदमुक्तं भवति-भावश्रुतेऽन्तर्जल्पाकारे केवले बहिःशब्दोच्चारणसहिते च श्रुतसामायिकस्यावतारो
भवति । 'मनोवाग्योजनायां सत्यासत्यामृषाद्वय द्वयस्येति (४६६-२४), अत्र किल श्रुतसामायिके सम्यक्त्वसा
मायिकस्य चारित्रसामायिके तु देशविरतिसामायिकस्यान्तर्भावं चेतसि निश्चित्येत्थमाह-द्वये-सत्यासत्यामृषामनोवाग्योट्र गलक्षणे द्वयस्यापि-श्रुतचारित्रसामायिकलक्षणस्यावतारो भावनीय इति, अन्यथा हि यद्यन्तर्भाव नाभिप्रेयात् तदा * सामायिकचतुष्टयस्यापि तत्रावतारं ब्रूयात् , न टुक्त, मनोवाग्योगद्वयवतश्चत्वार्यपि सामायिकानि न सम्भवन्तीति ।
काययोजनायामपि द्वयस्याद्यस्य चेति ( ४६७-१)द्वयस्य-श्रुतचारित्रसामायिकलक्षणस्य काययोजनायामवतारो वेदि-1 |तव्यो, ननु हस्तादिना भङ्गादिवर्तनात् तदवष्टम्भेन चान्तर्जल्पस्य बहिःशब्दस्य च प्रवृत्तेर्भवतु श्रुतसामायिकस्य काय.
योगेऽवतारः, चारित्रं तु निश्चयतः सावद्ययोगनिवृत्तिरूपो जीवपरिणामो यदाह-"आया खलु सामइय"मित्यादि Doll तत्कथं तस्य काययोगेऽवतार इत्याशङ्याह-'आद्यस्य चेति एतदुक्तं भवति-कायावष्टम्भेन यत्प्रवर्त्तते बाह्यप्रत्युपेक्षणा| दिक्रियारूपं व्यावहारिकचारित्रं तदपेक्षया द्वयस्यापि तत्रावतार उक्तो, नैश्चयिकं त्वात्मपरिणामरूपं चारित्रमपेक्ष्य यदि | प्रेर्यते भवता तदाऽऽद्यस्यैव श्रुतसामायिकस्य काययोजनायामवतारो भावनीय इति । 'उच्छुवणे सालिवणे'इत्यादि |
SUGUSESSORIASSA
in Education
For Privale & Personal use only
dow.jainelibrary.org