________________
आव० हारि० टीप्पणं
॥७४॥
AAAAAA
(४७०-२०) गाथा-इक्षुक्षेत्रशालिक्षेत्रयोः समीपे पद्मिनीपटलमण्डितस्य सरसः समीपे कुसुमिते वा चम्पकवृक्षादिवन-IIMa खण्डे गम्भीरः-पर्वतनितम्बादिषु नानाजातीयानेकप्रशस्तवृक्षनिकराकीणों गह्वरप्रदेश उच्यते, सानुनादस्तु यत्र शब्दे |
कव्यता समुच्चरिते दिक्षु प्रतिशब्दः समुत्तिष्ठति गम्भीरश्च सानुनादश्चेति विगृह्येकवद्भावाद्गम्भीरसानुनादं तस्मिन्नेवम्भूते प्रदेशे नद्यादिषु च यत्र दक्षिणावर्तेन जलमावर्त्तते तत्समीपे जिनगृहे वा सामायिक शिष्याय दीयत इत्यनन्तरवक्ष्यमाणगाथाक्रिया सर्वत्र सम्बध्यत इति गाथार्थः। 'संझागयं रविगय मित्यादि (४७१-८) गाथाव्याख्या-सन्ध्यागतं-यत्सन्ध्यायामुदेति यथा-कार्तिकमासप्रथमदिनसन्ध्यायां कृत्तिका, मार्गशीर्षे वा मृगशिर इत्यादि, रविगतं-यत्रादित्योऽवतिछते, विड्डेरं नाम कृतवक्रग्रहाधिष्ठितं, सग्गह-क्रूरग्रहाध्यासितं, विलम्बितं-यदादित्येन भुक्त्वाऽनन्तरमेव त्यक्तं, राहुहयं (गतं) यत्र रवेश्चन्द्रमसो वा ग्रहणमभूद्, ग्रहभिन्नं-नाम यद्भित्त्वा भौमाद्यन्यतरो ग्रहो मध्येन विनिर्गतः, एतानि सप्त नक्षत्राणि सामायिकं प्रयच्छन् वर्जयेदिति गाथार्थः। 'अभिवाहारो कालियसुयस्से (सुअंमी)त्यादि (४७१-१२), गाथा-अत्राभिव्याहारो नाम शिष्याचार्ययोरुक्तिप्रत्युक्त्यादिना प्रकारेण सामायिकादिश्रुतस्योद्देशसमुद्देशादिविधिरुच्यते, सच सामायिके प्रकृतेऽपि प्रसङ्गतः सर्वस्यापि श्रुतस्यानुयोगद्वारादिग्रन्थदृष्टः सामाचार्यायातश्च सामान्येनोच्यते, इह सामायिकाध्ययनादिश्रुतपठनेच्छया शिष्ये समुपस्थिते गुरुः समवसरणस्थापनां विधाय वामपक्षीकृतशिष्यः पूर्वाभिमुख है।
IC ॥७४॥ उत्तराभिमुखो वा देवान् वन्दते ततश्च शिष्यं द्वादशावर्त्तवन्दनं दापयित्वा तेन सहैव योगोत्क्षेपनार्थ पञ्चविंशत्युच्छासमानं कायोत्सर्ग करोति, पारितकायोत्सर्गश्चतुर्विशतिस्तवं पठति, ततश्च ऊर्द्धस्थित एव वारत्रयं पञ्चमङ्गलपाठपुरस्सरं “नाणं
प्रकृतेऽपि प्रसङ्गतः सर्वस्यापि श्रुतस्याः समवसरणस्थापनां विधाय वामपना पञ्चविंशत्युच्यासमान ।
Jan Education
For Private & Personal Use Only
M
i ninelibrary.org