________________
आव० हारि० टीप्पण
॥ ७१ ॥
Jain Education
कदाऽसौ लभ्यत इत्याह - " निबिग्गहसंघाए "त्ति इयमत्र भावना - अविशिष्टः कश्चिदौदारिकशरीरी मृत्वाऽन्यत्र ऋजुश्रेण्या समुत्पद्य प्रथमसमये संघातं कृत्वा यदा द्वितीयसमये संघातपरिशाटलक्षणमुभयं करोति तदा संघातसमय एवैक उभयान्तरे भवतीति, उत्कृष्टमुभयान्तरमाह-परमं प्रकृष्टं उभयान्तरमिति सम्बध्यते, सह त्रिभिः समयैर्वर्त्तत इति सत्रिसमयानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, कदा पुनरमूनि लभ्यन्ते ? इत्याह- देवादिष्यादिशब्दादप्रतिष्ठाने त्रयस्त्रिंशत्सागरोप| माणि अनुभूयेहागतस्य तृतीयसमये संघातयतो ज्ञेयानि समयकुशलैः, अयमत्र भावार्थ:-इह कश्चिन्मनुष्यादिः स्वभवचरमसमये संघातपरिशाटौ समुदितौ कृत्वा अनुत्तरसुरेष्वप्रतिष्ठाने वा यदा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह विग्रहेणोत्पन्नस्तृतीयसमये संघातं कृत्वा तत उभयमारभते तदा द्वौ विग्रहसमयावेकश्च संघातसमयो देवादिभवसम्बन्धीनि च त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टोभयान्तरे प्राप्यन्त इति गाथाद्वयार्थः । औदारिकसङ्घातादिवक्तव्यता समाप्ता ॥
वैकियोभयस्य भावनामाह - 'उभयं जहन्नसमओ' गाहा ( ४६१ - १० ), उभयं - संघातपरिशाटलक्षणं जघन्यं वैक्रियशरीरस्य समयप्रमाणं भवति, कस्य तद्भवतीत्याह- समयद्वयं विकुर्व्य मृतस्य, यो हि किलौदारिकशरीरी वैक्रियमारभ्य प्रथमसमये सर्वसंघातं द्वितीयसमये तु संघातपरिशाटौ विधाय म्रियते तस्यैकसामयिकं वैक्रियस्य संघातपरिशाटलक्षणमुभयमवाप्यते, उत्कृष्टं वैक्रियोभयकालमाह-परं - उत्कृष्टं वैक्रियस्योभयं संघातसमयहीनानि त्रयस्त्रिंशत्सागरोपमाण्यनुत्तर| देवस्याप्रतिष्ठाननारकस्य वा भवन्तीति गाथार्थः । वैक्रियस्यैव सङ्घाताद्यन्तरभावनामाह-'संघायंतरसमओ' गाहा ( ४६१ - १५ ), व्याख्या - एकदा वैक्रियसंघातं कृत्वा पुनरपि वैक्रियसंघातं कुर्बतो जघन्यमन्तरं समयो भवति, कदा ?
For Private & Personal Use Only
करणवकव्यता
॥ ७१ ॥
jainelibrary.org