SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ SHAAAAAAAAAAAAAAA द्वन्द्वः त्रयश्च समया इति गम्यते समयश्च त्रिसमयास्तहीन, एवं तु सति सर्वबन्धस्य त्रिभिः सर्वशाटस्य च समयेन हीनं क्षुल्लकमित्युक्तं भवति, इदं च सर्व भाष्यकारेण सह विरुध्यते, यतः स आह-"खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुन्ना पुचकोडी उ॥१॥" अत्र चोत्तराध्ययनबृहट्टीकादिषु भाष्यकृद्वचनसमर्थकं समाधान दृश्यते, तच्चेदं-अनन्तरातीतभवचरमसमय एव कश्चिदौदारिकशरीरी सर्वपरिशादं कृत्वा वनस्पतित्पद्यते, न पुनर्वनस्पत्यायुषः प्रथमसमये सर्वपरिशाटं करोति, व्यवहारमताश्रयणात्, “परभवपढमे साडण"मित्यस्य च निश्चयमताश्रयणात्, ततश्च यदा वनस्पतिषूत्पन्नः परिपूर्णक्षुल्लकभवग्रहणमतिवाह्यान्यत्रोत्पद्यते तदा परभवप्रथमसमये सर्बशाटं करोति, अत्र निश्चयमताश्रयणाद्व्यवहारनयमतस्य चानाश्रयणाद्, एवं च सत्यादौ व्यवहारनये पर्यन्ते च निश्चयनये समाश्रियमाणे | सम्पूर्ण क्षुल्लकभवग्रहणं साटद्वयस्यान्तरमवाप्यत इत्येवं न भाष्यकृद्धचो विरुध्यते, तथोत्कृष्टान्तरपक्षेऽपि यदा कश्चित् संयतमनुष्यस्तद्भवस्यैव चरमसमये उक्तन्यायेन सर्वपरिशाटं करोति न परभवस्य प्रथमसमये तदानुत्तरेषु परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि, पुनरपि च मनुष्येष्वागतः पूर्वकोटिं चातिवाह्यान्यत्रोत्पद्यमानो निश्चयनयमतेन परभवप्रथमे साटं| करोति तदा त्रयस्त्रिंशत्सागरोपमाणि सम्पूर्णा च पूर्वकोटिः शाटद्वयस्योत्कृष्टमन्तरमवाप्यत इत्येवमुत्कृष्टपक्षेऽपि भाष्यकारवचनमविरोधेन गमितं भवति, अत्राप्यादौ व्यवहारस्यान्ते च निश्चयस्याश्रयणादिति सर्व सुस्थमिति । एवं तावदेकैकमधिकृत्य पृथक् संघातस्य परिशाटस्य चान्तरमुक्तं, इदानीं युगपदुभयस्यान्तरकालभावनामाह-'उभयंतर' गाहा 'अणुभविउं' गाहा (४६०-२१) व्याख्या-उभयं-संघातपरिशाटलक्षणं तस्य जघन्यतः समयप्रमाणोऽन्तरकालो विज्ञेयः, BRAR Jain Educational For Private Personal Use Only how.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy