________________
आव० हारि० टीप्पणं
करणवकव्यता
॥७०॥
सर्वसाटं कृत्वा वनस्पतिष्वागत्येत्यादिभावना नातीव घटामियति, यतः 'परभवपढमे साडों इति न्यायाद् वनस्पत्या४ीयुष एव मध्यात् साटसमयस्यापगमो युक्तः, तन्मध्याच्च तस्मिन्नपनीते समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरं प्राप्नोति,
तथोत्कृष्टसाटान्तरभावनायामपि यदुच्यते कश्चित्संयतमनुष्य औदारिकसर्वसाटं कृत्वा इत्यादि, तदपि न युक्तिसङ्गतं, यतस्तत्राप्युक्तन्यायेन देवभवायुष एव मध्यात्साटसमयः पतितुमहति, एवं च सति समयोनपूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्ट शाटान्तरं स्यादिति, अत्रोच्यते, अत्र जघन्यशाटान्तरपक्षे वृत्तिकारो भवदभिप्रेतमेव समयोनक्षुल्लकभवग्रहणमानं शाटान्तरं गुरवस्तु व्याचक्षत इत्यादिनाऽभ्युपगमयिष्यति, केवलमुत्कृष्टशाटान्तरपक्षे वृत्तिकृताऽपि न किञ्चिदुक्तं परं, किन्तु जघन्यशाटान्तरानुसारत एवोत्कृष्टपक्षेऽपि भवदुक्तमेव शाटान्तरं वृत्तिकारस्याप्यभिमतमिति लक्ष्यते, यत्त्विह कश्चित् संयतमनुष्य औदारिकसर्वशाट कृत्वेत्यादिनोत्कृष्टशाटान्तरभावनां कुर्वता परिपूर्णपूर्वकोय्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि वृत्तिकारेणोक्तानि न पुनः समयहीनपूर्वकोव्यधिकानि तत् किल 'खुड्डागभवग्गहणं जहन्नमुक्कोसयं तु तेत्तीस मित्यादिभाष्यगाथामनुवर्तमानेनोक्तं, ननु यदि समयहीनं क्षुल्लकभवग्रहणं सर्वशाटान्तरं वृत्तिकृतो. |ऽप्यभिप्रेतं तर्हि गाथायां यदुक्तं "तिसमयहीणं खुड्डु"मित्यादि तत्कथमुपपन्नं स्याद् ?, इदं हि गाथाशकलमनन्तरमेव वृत्ति
कारेण स्वयमेवेत्थं विवृतं, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुल्लं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टशाटान्तरपक्षे तु न किञ्चि* ब्रूमः, तस्य गाथायामनुक्तस्यैव वृत्तिकृता भाष्यगाथानुवृत्त्या भावितत्वादिति, अत्राह-स्वयमेव वृत्तिकारः 'तथा च* |किलैवमक्षराणि नीयन्त'इत्यादि (४६०-१६), एतदुक्तं भवति-नात्र कर्मधारयः क्रियते त्रयश्च ते समयाश्चेति किन्तु
AL+UCAROSASAR
kणोक्तानि न पुना, ननु यदि समयहास्याद ?, इदं हि शाटान्तरपक्षे तु तथा च
॥७०॥
T
For Privale & Personal Use Only
w
Join Educati
o nal
w .jainelibrary.org
R