Book Title: Drushtant Shatakam Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दोहा-षट् मत है संसारमें, पंच ते अंध समान । इक इक वस्तूने ग्रहे, जिनमत सर्व प्रधान ।। १ ।। काल सहावो नियई, पुवकयं पुरिसकारयं चेव । समवाए सम्मतं, एगंतं होइ मिच्छत्तं ।। २ ।। __अथाऽऽहारानुकूलनीहारो भवति तदुपरि दीपकस्य ३-दृष्टान्तःसंपृष्टा विभुनैकदा निकटगाः कृष्णं कथं कजलं ?, नो वादिषु कालिमा किल ततः प्राहकधीमान्नृपम् । ध्वान्तं भक्षति दीपकस्तु नृपते ! तेनैव कृष्णाञ्जन-माहारो भुवि यादृश' भवति वा नीहारकस्तादृशः॥ ४ ॥ एकस्मिन्नहनि केनचिद् भूपालेन स्वपरिषदि निषण्णाः सम्याः पृशः। यत्प्रज्वलिते प्रदीपार्चिषि कालिमा कस्माद् दरीदृश्यते ? यतो हि दीपे कार्यासवर्तिका तु धवला तत्र कायं निभाल्पते न । वह्निरपि रक्तं पैत्यं च त्रिभर्ति, तैलमपि पीतं, न घेतासु दीपसामग्रीषु काष्यं विद्यते, तस्मादस्मिन्नसितेन कजलेन बोभूयते, तकिनिमित्वं ? तत्रैक: कोविदः सभामध्यस्थितो राजानं प्रत्यूचेभोः पृथ्वीपते ! प्रज्वलितो दीपस्तमस्तविक्षपाय प्रभवति । यतः प्रदीपो धान्तं भुक्त तत एषा कालिमा संजायते । लोकेऽपि श्रूयतेयादृश आहारस्ताइश एव नीहारः । अत्रायमभिप्रायो मनुजो यथा शुभाशुभं कर्म कुरुते तथैव तत्फलमश्नुते ॥ ४ ॥ उक्तं च-वर्तिस्तु धवला ज्ञेया, तैलं पीतं च दृश्यते । दीपोरक्तस्तया भाति, कज्जले श्यामता कथम् ?॥१॥ यादृशं भुज्यते चान्नं, पच्यते जठराग्निना । प्रदीपेन तमो भुक्तं, नीहारोऽपि च तादृशः॥२॥ अयात्मश्लाघी गुणिषु न गण्यते तत्र सिंहमूकरयोः ४-दृष्टान्तः For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93