Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्रजनः सर्वत्र भद्रतामेव लभते तत्र ४०-कथा
यज्ञे जग्धिकरी निरीक्ष्य हरिकेश्यन्नं तदा याचते, तस्मै ते न ददुः सकृद् विषधरं दृष्ट्वा हतस्तैर्नरैः । द्वाःस्यान्ते हि तथावदन्त्वविष कैषाऽतोऽपि नो मार्यतां, ज्ञात्वा स्वावगुणं ललौ व्रतवरं प्रोक्ता नु तेनाऽर्यका ॥ ४१ ॥
कस्मिश्चिदध्वरे बहवो भूमिदेवा निमन्त्रिता भुञ्जते स्म । तत्र हरिकेशीनामा श्वपचो भक्तं ययाचे । परं ते तस्मै न ददुः, प्रत्युक्त चुक्रुशुस्तदनन्तर एव बिलादेको भुजंगो निरियाय । तं वीक्ष्य विप्रा जमुईरिकेशी चाण्डालोऽपि तदपश्यत् । अथो कतिपयैरेव क्षणैस्तत्रैका गोधा निस्ससार तां दृष्ट्वा हरिकेशी हन्तुं प्रधावितः । तदा तत्रोपविष्टा भूसुरा व्याजहू:- अङ्ग ! अवध्यैषा निर्विषत्वात्तदा स स्वयमेव स्वापराधं परिज्ञाय जातिस्मरणोदयाच्चारित्रव्रतं जग्राह ॥। ४१ ।। अथ च गाथामुच्चार्योपदिदेश । सैषा गाथा-भद्देण होइ सव्वं, भदं पावेइ सव्वओ भद्दं । इणिओ कण्डो सप्पो, भेरंडो तत्थ मुंच दिट्ठो ॥ १ ॥ सत्प्राणिनो वस्तुवैलक्षण्यं निरीक्षण विरज्यन्ते तत्र ४१ – उदाहरणम्
दृष्ट्वेशोऽप्यति सुन्दरं च वृषभं सोऽटाट्यते चैकदा, मार्गे सत्करकण्डुराह निजकान् कस्याऽयमुक्षा तदा । प्रोचुस्ते तव भोः ! कमिष्टवृषभं श्रुत्वेति दीनोऽपि सन्, वैराग्यं हि विधाय राज्यमखिलं त्यक्त्वा मुनीशोऽभवत् ४२
कस्यचित्करकंडुराजस्य कमनीय उक्षाऽऽसीत् । बहुकालानन्तरमेकस्मिन् दिवसे मार्गमध्य उच्चैराक्रन्दन्तं तं दृष्ट्वा स मनुजानच्छत् कस्याऽयं बलीवर्द इति ? कश्चिदप्येन न बध्नाति । तत्र स्थितः कश्चिन्मानवो वक्ति - राजन् ! भवतां निकाममभिमत एष वृषः ।
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93