Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 388888888888888888888 एकदा श्रेणिकनृपः श्रीमहावीरप्रभु वन्दित्वा पप्रच्छ-भगवन् ! राजा प्रसनचन्द्रो दीक्षामादाय बने कायोत्सर्गध्याने सूर्याऽमिमुखं पश्यनेकेन चरणेन स्थितोऽस्ति, तस्माद्यदि साम्प्रतं म्रियेत, तर्हि कस्यां गतो जायेत ? भगवताप्रोक्तम्-प्रथमनरकता सप्तमं यावद् गमिष्यति । ततः पुनरपि श्रेणिको जगाद-प्रभो ? यद्येतादृशस्तपस्वी नरकं ब्रजेत्तदा धर्माचरणं कः करिष्यति ? एतनिशम्य भगवताभिहितम्-तस्य मानसिकः संग्रामस्तं नरके मेष्यति । क्षणान्तरे श्रेणिकः पुनरमाक्षीत- भगवन् ! यदीदानी प्रसन्नचन्द्रराजर्षिनियेत, तदा कां गतिं लभेत ? भगवता पुनरप्यमाणि-प्रथमदेवलोकादारभ्य पश्चममनुत्तरविमानं यावत्तस्य गतिः स्यात् । अत्रान्तरे भगवतः समवसरणाद्देवा गन्तुमुद्यता बभूवुः, तदानीं श्रेणिकोऽपृच्छद् भगवन्तम्-भगवन् ! एते देवाः कुत्र गच्छन्ति ? तदा भगवता व्याहृतम्-प्रसनचन्द्रराजर्षेः केवलज्ञानमुद्भूतमस्ति, तदुत्सर्व विधातुमेते व्रजन्ति । तदा राज्ञा मनसि ध्यातम्-अधुनैव भगवता तस्य नरकगमनं भाषितं,पुनरिदानी केवलज्ञानमिति विरुद्धमिवाभाति तथापि भगवतो वचनं त्वन्यथा न भवितव्यम, विपरीतमपि न संभवेत, निराधारमपि वक्तुं न शक्यम्, इत्थं संदिहानस्तमपनेतुं भगवन्तं पप्रच्छ । ततः प्रभुरवदत-प्रथमं यन्मयो यभरके गमिष्यति, तत्तव दुर्मुखसुमुखनाम्नो तयोर्वचो निशम्य मनोयुद्धे प्रवर्तमान आसीत्प्रसन्नचन्द्रराजर्षिस्तस्मानरकगमनाहोंsभवत्, परं स मनोयुद्धं कुर्वन् सर्वमखजातं परित्यज्य शिरोवेष्टनोचारणार्थ शिरसि हस्तं न्याक्षिपत्तदा लुश्चितं शिरो निभाल्य वीडितो विचारितुं लगा-क एष दुर्विलासः? अहन्तु दीक्षितोऽस्मि, क एते रजःपरिणामाः पुत्रादयः कः कस्य पुत्रः १ का संग्रामः ? का दुर्गः कस्य केन संग्रामोऽनित्यैषा क्षणभंगुरी मनोभावनाऽनिशं दुःखोदधौ निमज्जनोन्मजने कारयति जीवानसान,इत्थममेदभाई भावयतस्तस्य कैवल्य समुत्पनम् । तदेतदाश्चर्यकरमलोकसामान्य वृत्तं श्रुत्वा श्रेणिकस्तुतोष ।। ८३ ।। उक्तमपि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93