Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यश्वं जीव प्रियस्व वा यथा तवेच्छेति यदुक्तं तस्याऽयमाशयः - प्रेत्य त्वं देवलोके यास्यसि, जीवंश्च धर्मशतानि शुभकार्याणि करिष्यसि । कालिकसूरि सौनिकं प्रत्यपि त्वं मा प्रियस्व मा च प्राणेति यत्कथितं तस्येदमाकूतम् - यज्जीवन् प्रत्यहं पञ्चशतमहिषान् हनिष्यसि मृत्वा च नरके गमिष्यसि, तस्मान्मा जीव मा म्रियस्त्र च, एवमस्य वाक्यार्थो विज्ञेयः । अनेन साधु गदितं, अतः समेषां शुभचिन्त कोऽयमिति जानीहि ॥ ८८ ॥ उक्तमपि — श्रीमद्वीरजिनादीनां चतुर्णां सदसि स्थितः । देवेनाऽनिष्टमिष्टं तचोक्तं श्रुत्वा स कोपितः ॥ १ ॥ भूपस्तदा जिनेनोक्तः, सत्योक्तं सत्यवाद्यसौ । शुभेच्छुकः सुवक्ता चाऽस्मदादीनां विशेषतः ॥ २ ॥ अथ स्त्रीचरित्रमधिकृत्य भर्तृहरेः ८७ - कथा - शाय ददौ द्विजोऽमरफलं तेनापि दत्तं स्त्रियै, साब्दाद्धस्तिपकाय सोऽपि गणिकां साग्दाच राज्ञे तदा । पृष्टानुक्रमतः प्रिया निगदितं तथ्यं तया साध्वसात् त्यक्त्वा राज्यपदं भवं हि घिगरं दीक्षां विरागान्जली ॥८८॥ एकदा भर्तृहरिनाम्ने नृपाय केनचिद् भूदेवेनाऽमृतफलं प्रदत्तम् । तच्च पिंगलाभिधायै प्राणवल्लभायै राज्ञा दत्तम् । सापि हस्तिपकाय स्वप्राणवल्लभाय जारपुरुषाय प्रादात्, अथ तेनाऽपि प्रेयस्यै गणिकायै दत्तम् । पुनर्वेश्यापि महोत्तमं फलं मत्वा सर्वहितैषिणे राज्ञे समर्पितवती । तत्रिभाल्योपलक्ष्य च विसिष्मिये भूजानिः । ततो भूपो गणिकां पप्रच्छ - कुतस्त्वयाऽसादितमेतत् १ ततः सा प्रकाशमाधोरणस्प नाम जग्राह । अथ सोऽपि भूपतिना पृष्टो नाऽहं वेद्मि कुतो लब्धमिति जगौ, पुनर्भूपभयेन वेपमानो यथातथ्यमच -- कथत् - भवन्महिष्या पिंगलया मह्यं खादितुमर्पितम् । मया च स्वप्रियायै गणिकायै प्रदत्तं तथा भवते । तन्निशम्य राजा चिन्तयामास For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93