Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वनवान्धोनिर्मितान् पदार्थानाशयिष्यसि, तीविलम्बेनैव सोधः संपत्स्यते । तनिशम्य सा तथैवोपाचरत् । तस्याः प्राणेशोऽपि हतलोचन इव प्रणिगदति-अये सुन्दरि ! मे दृष्टौ किमपि नापतति, किमहमधुना करवाणि, देहि मेऽवलम्बनमिति । | तदानी सा पुंश्चली निर्विशंका विटेन सह रममाणा रतिजनितसुखमन्वभूत् । तस्या हृदि शंकागन्धोऽपि नाऽऽस्पदं चकार । यदा स सद्यो निर्मिताज्यबहुलभोज्यद्रव्यैः पिनद्धगात्रः समजायत, तदा व्यभिचाररतं युगलं संनय यमसदनातिथिमकरोत् ।। ३८॥ उक्तश्च-कयं हससि भो हंस!, नाहं दर्दुरचाहनः । कालक्षेपं करिष्यामि, घृतान्धो ब्राह्मणो यथा ॥१॥ अथ गुरुः शिष्यान् परीक्ष्य निजास्पदे स्थापयेत्तत्र ३८-कथाशिष्यान् वक्ति गुरुस्तदाम्रफलमिच्छाम्यानय त्वं पृथक्, पारीक्षाय निवेदिताः प्रथमकोऽवग् वृद्धता ते गुरो।। । अन्यो गच्छति शब्दितस्त्वयलघुर्गत्वा विधिपृच्छति, त्रैविध्यं ज्ञविनीतकंहिगुरुणा ज्ञात्वाऽर्पितं सत्पदम् ॥३९ अथ कोऽपि गुरुः स्वपदे कमपि शिष्यं नियोजयितुं प्रशस्यशिष्यपरीक्षणाय प्रथमं तेषु वयसा ज्येष्ठं प्रत्याह-यच्चमस्मभ्यमाम्रफलमाहृत्य प्रयच्छ तदा सोऽवक-हे गुरो ! ते मतिःक विलीय गता, यद् वार्धक्येऽपि रसालफलमुपभोक्तुं मनः प्रसरति । पश्चादपरं शिष्यं प्रत्याह-भोस्त्वमाम्रफलमानय । अथ सोऽप्यानेतुं प्रस्थितः, पश्चात्तमाजुहाव । पुनरित्थमेव तृतीयं कनीयांसं प्रत्यवदत् । स स्वभिवाद्य गुरुं पप्रच्छ-कृपालो गुरो! त्रैविध्यमाम्राणां कतममहमानयानि ? । इत्थं तस्य वारूपाटवं प्रसमीक्ष्य ज्ञानवन्तं क्रियावन्तं विनयाश्चितश्च तं शिष्यं स्वस्थाने स्वपट्टे वा संन्यवेशयत ॥ ३९ ॥ तथा चोक्तम्-- परीक्षा सर्वसाधूनां, शिष्याणां च विशेषतः। कर्तव्या सूरिणा नित्यं, त्रयाणां हि कृता यथा ।।१।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93