Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दृष्टान्त ॥३२॥ R-REKACORREESOMEREDEEBRA अथाऽभव्यजीवाः श्रीतीर्थकरस्योपदेशेनाऽपि न भिद्यन्ते तत्र मुद्गशैलस्य ७४-कथा-मेघं वक्ति च नारदस्तव रिपुर्मुद्गाख्यशैलो भुवि, श्रुत्वा कुप्यति सोऽणुकस्त्वमसि तं रे ! याहि मुद्गाऽऽगतः। कोऽग्रेऽयं मम वर्षति प्रवलकं भेत्तुं न मां शक्यते, वक्त्रे हास्यमतो दृषद्यदि तयाऽभव्यो जिनैर्भाषितः ।७५/ ___कदाचिनारदो मेघमुपेत्याचोचत-मर्त्यलोके मुद्गशैलोऽतिकर्कशोऽस्ति मदोद्धतः स वक्ति-जगति मां भेत्तु कोऽपि प्रभुन विद्यते । गर्वगर्भितं तद्वचो नारदाऽऽस्यानिशम्य नीरदोऽपि साऽहंकारमाह-अरे। तं त्वहमधुनैव जीर्णशीर्ण करोमि । एवमुक्तं पयोदवाक्यं श्रुत्वा देवर्षिर्नारदो मुद्गशैलमुपेत्योवाच-रे शैल ! त्वमितो झटिति प्रयाहि, तवोपरि जीमूतो भूभङ्गभीषणः सन् त्वां प्लावयितुमायाति । तदाऽकर्ण्य मुद्गाचलः प्रतिवक्तुं लग्नः-हे देवर्षे ! वराकस्य जलघरस्य मम पुरः का शक्तियन्मां प्लावयेदहन्तु | विपुलशक्तिमानसि । एतावदुक्त्वा विरत एव तस्मिन् पुष्करावर्तकायाः प्रलयपयोदाः सप्तदिनानि यावन्मुसलाधारवृष्टया वर्षः, परं स शैलो मनागपि नाऽभिद्यत, प्रत्युत निर्णिक्तो विरजस्क: सन् श्वेततः समजायत। ततः सर्वेऽपि हास्यतत्परा मनुजा वारिवाई वीक्ष्य जहसुः । एवमेवाऽभव्याः प्राणिनोऽपि श्रीतीर्थङ्करस्य भवाब्धितरिनिभेनोपदेशेनापि कदाचिदपि नाघ्रबुध्यन्ते ॥७५।। ईशो भावो वीतरागेण श्रीजिनेन्द्रेणाऽपि भव्यजीवानां कल्याणार्थ प्रकटितोऽस्ति । तथोक्तश्च मुद्गशलो मुद्गमाना, पुष्करावर्तको घनः। जम्बूद्वीपप्रमाणोऽसौ, नारदः कलिकृत्तयोः॥१॥ अथार्यावर्तदेशे जनि लब्ध्वा यो जनो धर्म नाऽऽचरति स पशुरेव तत्र जडश्रेष्ठिनः ७५-कथा SEARABIABEBEEXSEX38883 ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93