Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रादागतोऽसि ? तदानीमपि शिष्यस्तथैवोत्तरं ददौ-गुरो! अद्य नव्याः प्रयोग निभालयितुं स्थित आसम् । तनिशम्य गुरुरवादीत
अरे मन्दयुद्धे! मम पुरः पुरा त्वया नाटक विलोकनं परित्यत्तम, पुनस्तत्र कथं स्थितोऽभूः ? तदा शिष्येणोक्तम्-आर्य ! मया तु नट| स्य नाट्यं परित्यक्तमासीत्, न तु नव्याः । तदा गुरुणा पुनः प्रतिबोधितः-नटनट्योर्नाटकावलोकनेन सांसारिकमोहोत्पत्तिः कर्मवन्धश्च चोभूयते । ततः शिष्योऽपि नाव्यं स्वर्ण पौंस्नं वा स्यान्न द्रष्टव्यमिति तद्दण्डं स्वीचकार ॥ ७८ ॥ कथितमपिनिर्दम्भास्तु वरा मूर्खाः, साधवो ये भवन्ति ते । आलोचयन्ति गुर्वन्ते, यथा नाटकवीक्षकः ॥ १॥
अथ मूर्खपुत्रोपरि कस्यचित् श्रेष्ठिपुत्रस्य ७८-कथादातव्यं पितरौ न वत्स! कथितः प्रत्युत्तरं वै त्वया, गेहाद् द्वौ विगतौ तदा जडमतिद्वारं जटित्वा स्थितः। मातागत्य सुतं ब्रीति बहुशो नोद्घाटयो घाटति, गेहे झुत्तरतः कृतं किमिह रे। सोऽवग् युवाभ्यां मतम् ७९
कदाचित्केचिच्छ्रष्ठिश्रेष्ठिन्यो स्वसुतं शिक्षयतः-भोः पुत्र ! पितृभ्यां पुरो विनयेन वर्तितव्यं, जातु प्रत्युत्तरमपि न देयम् । पुत्रस्तयोर्वचनं स्वीचकार, परं स वटुर्जेडमतिरासीत, इति तद्वचनाभिप्रायमज्ञात्वा मनसि निदधी । पश्चादेकस्मिन् दिवसे तज्जननीजनको कार्यवशात् पहिर्गतौ । तदा स मन्दमति_लोऽभ्यन्तरतः कपाटौ पिधाय गृहे स्थितः । यदा तौ परावृत्याऽगतौ पुत्रमूचतु:-हे पुत्र ! कपाटमुद्घाटय २, एवं बहुकार्थतोऽपि स बालिशोऽररं नोदघाटयन च प्रतिवचनमेव ददौ । ततो हताशी भूत्वा छदिमुत्पाट्याऽन्तः प्रविष्टावपश्यतां हसन्तं बालकम् । ततः पितृभ्यां भाषितम्- अरे मूढ ! जानमपि कपाटं कथं
For Private and Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93