Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दृष्टान्त॥ २९॥ शतकम् क्रियाहीनं कुसाधुञ्च, दृष्ट्वा चित्तं न चालयेत् । तत्सम्यक्त्वं दृढं ज्ञेयं, धर्मे श्रेणिकभूपवत् ॥१॥ M अथ जीदयामधिकृत्य तत्रैकस्य भूपस्य ६८-कथाभूपः संसदि वर्णितो हि हरिणा देहीति देवो गतः, श्रुत्वाऽवक नृवलिं न चेत्पुरजनान्हन्मीति मंत्रोऽभवत् । सोपायश्च तदा जनैशिशुकं लास्वा वधायार्पित-स्तत्स्थाने नृपतिः स्थितो ननु सुरस्तुष्टोनृपं श्लाघते ॥६॥ पुरा पुरन्दरेण निजपरिषदि कश्चिद् भूपः संस्तुतः, तच्छ्रुत्वा तं परीक्षितुं कश्चिन्मिथ्याष्टिदेव आगत्य राजानमुवाच-राजन् ! माँ नृबलिं देहि, न. प्रयच्छसि चेत्सर्वानेव नगरवासिनो हन्मि । नृपेणोक्तम्-नरबलिवार्ता स्वमेऽपि कर्तुं न शक्या क पुनस्तद्दानम् ? तदा देवो नगरमात्रीं शिलां नगरोपरि प्रक्षेप्तुं सज्जितोऽभवत् । तां दृष्टा भीतिविठ्ठलाः पत्तनवासिनो भूपालमूचिरे-भो महीपते ।। एकस्य कृते बहूनां वधो भविष्यति, अत एक नृचलि दवाऽखिलाञ्जनान् रक्ष । तत उर्वीपतिराह-एतस्कर्तुं मया न शक्यते, यत्भाव्यं तदेव भावि । पुनः किमस्ति कोऽपीदृशः परोपकारी यो हृष्टो मर्तु वान्छेत, येन नरेण च देवं यजेयमिति । इत्थं दृढां राजोक्ति निशम्य सर्वैः सम्भूय तदानी चिन्तितम्-कोटिमुद्राणां स्वर्णपुत्तलिको कोटिदीनारांश्च कस्मैचिभिर्धनाय प्रयच्छामः, प्रतिफले च तस्मात्पृथुकै गृह्णीमरतहि देवबलिं दवा स्वस्थचित्ता भवेम । इत्थं सर्वनिश्चित्य तथाकृते सति कश्चन निःस्वः पुरुषः प्रीत: पुत्र प्रायच्छ्त, तमुपराजं नीत्वा पलिसदने स समुपवेशितः । बालो नृपं निमाल्य इसन्नुवाच, सुप्रभातमय मे यत:-प्राणिनां मृत्युर्धवः, तस्मादेकोऽहं स्वशरीरव्ययेन सर्वानपि पत्तनवासिनो जनान् जीवयिष्ये । एतच्छ्रत्वा कृपालुः प्रजानाथस्तत्पदमध्यतिष्ठत । ततः प्रीतो देवो महीपति स्तुवन वक्तुं लग्न:-हे दयालो! त्वं यथेन्द्रेण सदसि वर्णितस्तथैवासि । इत्युक्त्वा देवः स्वस्थानमगमत् । कथितञ्च ॥२९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93