Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ २२ ॥
www.kobatirth.org
स्मदीयो भर्ता मम वशे वर्तते । तदा पण्डितपत्न्या पृष्टा राशी, कया रीत्या त्वदीयो भर्ता स्वदधीनस्तन्मे पुरो विशदय । तदनन्तरं महितं यथा क्षिसे तथैव दर्शये, तदा कोविदसीमन्तिनी जगाद - यदि त्वं स्वपतिमचं परिकल्प्याऽऽरुस्तर्हि ते पि वशे विद्याम् । तत्काल एव सा व्याजीकृत्य त्रुटिते पर्यके समासीनो कन्द- हा ! हृदयं विदीर्यते म्रियेऽइम् । अस्मिन्नन्तरे क्षितिपतिरभ्यर्णमागत्य पप्रच्छ - कस्मादेवं गर्हितं शयाना क्रन्दसे ? अथ राज्ञी जगाद - उदन्तो वक्तुमनः । तदनन्तरं राजाऽत्याग्रहेण तद्वृत्तान्तं प्रष्टुं लग्नः । तदा राश्युवाच त्वमश्व इव भूत्वा मामारोहय तत्काले कशाभिः सप्तकृत्वस्त्वामभिहन्यां ततः स्वस्था भवेयम्, ततस्तत्सर्वमपि नृपश्चके । तत्सर्व कालिदासपत्न्या दृष्टं प्रच्छन्नवृत्या । पुना राज्ञ्या बुधभार्या प्रत्युक्तं - यदि त्वं स्वभर्तुः श्मश्रूणि मुण्डितमुण्डञ्च कारयित्वा संसदि प्रवेशयिष्यसि तदा त्वां भर्तृमोहिनीं विद्याम्, तदनु तस्या आग्रहेण कालिदासोऽपि यथानिदेशं कृतवान् । पर्पदि तथायान्तं कविमालोक्य भूरतिः पप्रच्छ कस्मिंस्तीर्थे मुण्डितोऽभूः १ ।। ५४ ।। तदा कालिदासः पद्यगिरा प्रत्यभाषत -
कालिदास ? कविश्रेष्ठ, कुत्र पर्वणि मुण्डनम् ? | अनश्वा यत्र नेष्यन्ति तत्र पर्वणि मुण्डनम् ॥ १ ॥ किं किं नाचरते प्राज्ञः, स्त्रीवाचा प्रेरितो नरः । अश्वरूपी भवेद्राजा, मंत्री मस्तकमुण्डितः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ यद्वचनस्य विश्वासो गतः स जीवन्नपि मृतो ज्ञेयस्तत्र ५४ - दृष्टान्तःदृष्ट्वा काकमसिं हि मार्गति नृपो बाणं गृहीत्वा छलात् पुंस्खित्वा सुबलेन मुञ्चति यदा काकस्य लग्नं दृढम् । प्राप्तोऽधो बलिभुक् तदाऽऽह नृपतिं नाहं मृतस्त्वं मृतो वाक्यं ते नरभूषणं गतमतो धिक् त्वादृशां जो वितम् ॥ ५५ ॥ ॥
For Private and Personal Use Only
-
शतकम्
॥ २२ ॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93