Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ष्ष्टान्त॥ २३ ॥
www.kobatirth.org
प्रश्नस्योत्तरं दास्यसि, तर्हि नीरं पातुं शक्ष्यसीति तदुक्तमश्रुतमिव कृत्वा जलं पपौ मृतश्च । बहुकालं परावृत्यागतमवेक्ष्य गतः, इत्थं चत्वारोऽपि भ्रातर एकैकशः कृत्वा तत्र जग्मुः । परमुत्तरस्याऽप्रदानेन तद्वचसो निहता भुवि पेतुः । अथाऽजातशत्रुर्युघिष्ठिरो व्यचिन्तयत्-यो हीतो गच्छति, सन परावर्तते, कात्र वार्ता ? तस्माद् युधिष्ठिरः स्वयं तत्राऽगमत, चतुरो भ्रातृश्व विवे नानद्राक्षीत् । तृषितश्च जलं पातुं प्रवृत्तस्तदा देवताऽब्रवीत् मम प्रश्नस्योत्तरमदास्यश्चेचं तहींमे चत्वारोऽपि तवानुजा अजीविष्यन् सलिलञ्चाऽपास्यः, उत्तरमदत्त्वा पयः पास्यसि चेतर्हि त इव त्वमपि मरिष्यसि । तच्छ्रुत्वा धर्मराजोऽवादीत् कथय किं प्रष्टुं काम से १ ततो यक्षराजः प्रश्नान पृच्छत् धर्मपुत्रो युधिष्ठिरः प्रश्नानामुत्तरं ददौ ॥ ५६ ॥ ते च श्लोका अधस्तना:का वार्ता १ च किमाश्चर्ये २, कः पन्थाः ३ कश्च मोदते ? ४ । इति मे चतुरः प्रश्नान्, पूरयित्वा जलं पिब । । १ । अस्मिन्महामोहमये कटाहे, सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदर्वोपरिघहनेन, भूतानि कालः पचतीति वार्ता २ अहन्यहनि भूतानि गच्छन्ति यममन्दिरे । शेषा जीवितुमिच्छन्ति, किमाश्चर्यमतः परम् ? || 2 11
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना, नैको मुनिर्यस्य वचः प्रमाणम् |
धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्याः ॥ ४ ॥ पञ्चमेऽहनि षष्ठे वा, शाकं पचति यो गृही । अनृणी चाप्रवासी वै स वारिचर! मोदते ॥ ५ ॥ इत्थं युधिष्ठिरस्य प्रश्नोत्तराणि निशम्य प्रीतः सन् देवो वरं ददौ यते मृता जीवन्तु चत्वारो भ्रातरः |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शतकम्
॥ २३ ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93