Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कितः । अदृष्टपूर्व एषः, हंसस्तदोचे - राजन् ! नाहं बलिक, किन्तुज्ज्वलो हसोऽहमस्मि । परं नीचाश्रयेणेमां मृत्युददशामनुप्राप्तोऽस्मि । अतो भव्यजननीचप्रसंगः सदैव हेयः ॥ ६ ॥ पुनस्तदैवं हंसेनापि श्लोकोऽपाठि
नाहं काको महाराज !, हंमोऽहं विमले जले । नीचसंगप्रसंगेन, मृत्युरेव न संशयः ।। १ ।।
हंस तरन्तो देखिकें, तुम किम तरियो करण ? । तोरी यारी जे करे, तल शिर ऊपर परग ।। २ । अथ नरः कृतकर्मफलमश्नुते तत्र चौरस्य ६-प्रबन्धः
दुर्भेदादयगृहेऽकरोन्निशि हरः खातं च पद्माकृतिं तन्मध्ये क्षपितौ क्रमौ धनतृषा ज्ञातस्तदा स्वाधिपैः । चान्तस्यैर्ग्रहणं पदोर्निजजनैर्वाणैः कृतं हस्तयोः, खातान्तैर्निशितैः प्रपीडिततनुः संघृष्यमाणो मृतः ||७|| एकदा कस्यापि श्रेष्ठिनो गृहे तस्कराचौर्य कर्तुमागताः । परं तद्धर्म्यमपि काष्ठफलकैः जटितमासीत् । तेषामेकचौरः पद्माकृर्ति - कमलाकारं खात्रं कृत्वा घनगृध्नुस्तस्याऽन्तर्द्धावपि चरणौ चिक्षेप, तदानीं गृहपतिर्जजागार । तस्मिवानुशायिभिर्मनुजैस्तत्पादयुग्मं जगृहे । ततः स सजातीयानन्यानप्याहूय निजगाद, भोः 1 निगृहीतोऽस्मि निष्कासयत माम् । तच्छ्रुत्वा ते तत्करौ निगृ चकृषुः । तदनन्तरेऽन्तःस्था जना अन्तर्गृहं बहिःस्था बहिश्राकर्षन्ति । एवमुभयतोऽन्योन्याकर्षणेन कमलाकारसन्धिमध्ये निशि तशर्करामिश्रौरो विव्यथे क्षतांगः संच ममार । तस्माज्जनेन यादृशं कर्म क्रियते, तादृशमेव फलं भुज्यते ॥ ७ ॥ तथा चोक्तम्- यादृशं क्रियते कर्म, तादृशं प्राप्यते फलम् । यथा प्राप्तं तु चौरेण, हस्तवातकृतेन वै ॥ १ ॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93