SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कितः । अदृष्टपूर्व एषः, हंसस्तदोचे - राजन् ! नाहं बलिक, किन्तुज्ज्वलो हसोऽहमस्मि । परं नीचाश्रयेणेमां मृत्युददशामनुप्राप्तोऽस्मि । अतो भव्यजननीचप्रसंगः सदैव हेयः ॥ ६ ॥ पुनस्तदैवं हंसेनापि श्लोकोऽपाठि नाहं काको महाराज !, हंमोऽहं विमले जले । नीचसंगप्रसंगेन, मृत्युरेव न संशयः ।। १ ।। हंस तरन्तो देखिकें, तुम किम तरियो करण ? । तोरी यारी जे करे, तल शिर ऊपर परग ।। २ । अथ नरः कृतकर्मफलमश्नुते तत्र चौरस्य ६-प्रबन्धः दुर्भेदादयगृहेऽकरोन्निशि हरः खातं च पद्माकृतिं तन्मध्ये क्षपितौ क्रमौ धनतृषा ज्ञातस्तदा स्वाधिपैः । चान्तस्यैर्ग्रहणं पदोर्निजजनैर्वाणैः कृतं हस्तयोः, खातान्तैर्निशितैः प्रपीडिततनुः संघृष्यमाणो मृतः ||७|| एकदा कस्यापि श्रेष्ठिनो गृहे तस्कराचौर्य कर्तुमागताः । परं तद्धर्म्यमपि काष्ठफलकैः जटितमासीत् । तेषामेकचौरः पद्माकृर्ति - कमलाकारं खात्रं कृत्वा घनगृध्नुस्तस्याऽन्तर्द्धावपि चरणौ चिक्षेप, तदानीं गृहपतिर्जजागार । तस्मिवानुशायिभिर्मनुजैस्तत्पादयुग्मं जगृहे । ततः स सजातीयानन्यानप्याहूय निजगाद, भोः 1 निगृहीतोऽस्मि निष्कासयत माम् । तच्छ्रुत्वा ते तत्करौ निगृ चकृषुः । तदनन्तरेऽन्तःस्था जना अन्तर्गृहं बहिःस्था बहिश्राकर्षन्ति । एवमुभयतोऽन्योन्याकर्षणेन कमलाकारसन्धिमध्ये निशि तशर्करामिश्रौरो विव्यथे क्षतांगः संच ममार । तस्माज्जनेन यादृशं कर्म क्रियते, तादृशमेव फलं भुज्यते ॥ ७ ॥ तथा चोक्तम्- यादृशं क्रियते कर्म, तादृशं प्राप्यते फलम् । यथा प्राप्तं तु चौरेण, हस्तवातकृतेन वै ॥ १ ॥ For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy