Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उड्योतः]
ध्वन्यालोकः।
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । . तदन्यस्यानुरणनरूपव्यङ्गयस्य च ध्वनेः ॥१॥ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये खंप्रभेदे पदप्रकाशता यथा महर्षासस्य–'सप्तैताः समिधः श्रियः' । यथा वा कालिदासस्य-'कः
नेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति । शब्दस्तु न कदाचिद्यङ्ग्यः । अपि.तु व्यञ्जक एवेति । तदाह-व्यञ्जकमुखेनेति । न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव व्यञ्जकमुखवं नास्तीति पुनःशब्देनाह । व्यञ्जकमुखेनापि भेदः सर्वथैव न न प्रकाशितोऽधुना पुनः शुद्धव्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः संघटना महावाक्यमिति खरूपत एव व्यञ्जकानां भेदः न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता संभवतीति व्यञ्जकैकनियतं खरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् । यस्तु व्याचष्टे-'व्यङ्ग्यानां वस्त्रलंकाररसानां मुखेन' इति स एवं प्रष्टव्यः-एतत्तावत्रिभेदलं न कारिकाकारेण कृतम् । 'वृत्तिकारेण तु दर्शितम् । न चेदानी वृत्तिकारो मेदप्रकटनं करोति । ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का संगतिः । न चैतावता सकलप्राक्तनग्रन्थसंगतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितवादित्यलं निजपूर्वजसगोत्रैः साकं विवादेन । चकारः कारिकायां यथासंख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य संबन्धी यो द्वितीयो भेदः क्रमद्योत्यो नाम खभेदसहितः सोऽपि प्रत्येकं द्विधैव । अनुरणनेन रूपाणां सादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्यत्यर्थः । महर्षरित्यनेन तदनुसंधत्ते यत्प्रागुक्तम् । अथ च रामायणमहाभारतप्रभृतिनि लक्ष्य दृश्यत ईति। 'धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥' समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारोऽसंभवात् । समिच्छब्देन च व्यङ्गथेनानन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् । यद्यपि
'निःश्वासान्ध इवादर्शः-' इत्याद्युदाहरणादप्ययमर्थो लभ्यते तथापि प्रसङ्गाबहुलक्ष्यव्यापिवं दर्शयितुमुदाहरणान्तराण्युक्तानि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य योजिनीयः किं पुनरुक्तेन । संनद्धपदेन चात्रासंभवात्स्वार्थेनोद्धतलं लक्षयता वऋभिप्रेता निष्कारुणिकलाप्रतिकार्यखाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्व विषयिरञ्जकत्वदर्पकवादिकं लक्षयता सातिशयाभिलाषविषयत्वमिति वऋभिप्रेतं
१. 'प्रभेदे' ग.
१. 'अपि तस्य' ग. २. 'व्यञ्जकलमुखं' क-ख. ३. 'संभाव्यते' क-ख. ४. 'प्रतिपादितत्वात्' ग. ५. 'रूपेण' ग. ६. 'यत्र' क-ख. ७. 'संबध्यते' क-ख. ८. 'इति वृत्तिः क्षमा दानं तपः शौचं' क-ख. ९. 'उदाहरणानां' क-ख. १०. 'व्यञ्जकल' क-ख.
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258