Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३१०
काव्यमाला । तिशयं पुष्णाति । तत्र ह्येकचुलके जलधिसंनिधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु लोकप्रसिद्ध्याद्भुतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद्यथा
'सिज्जइ रोमञ्चिज्जइ वेवइ रच्छाकुलङ्गपडिलग्गो ।
सोपासो अज्ज वि सह अतीइ जेणासि वोलीणो ॥' एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति सा त्वां दृष्ट्वा खिद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानात्मना मनागपि नो जायते । तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यर्थानां नवनवत्वं जायते तथा प्रतिपादितम् । गुणीभूतव्यङ्गयस्यापि प्रभेदापेक्षया ये प्रकारास्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः खयमुप्रेक्षणीयम् ।
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥६॥ - सत्खपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः । तस्मिंस्त्वसति न किंचिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसंनिवेशार्थप्रतिभानाभावे कथमुपपद्यते अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तते । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत् , परोपनिबद्धार्थविरचने यथा तत्काव्यास्य व्यवहारस्तथा तथाविधानां काव्यसंदर्भाणाम् ।
न चार्थानन्त्यं व्यङ्गयार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते
अवस्थादेशकालादिविशेषैरपि जायते ।
आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥७॥ .. १. अस्फुटेयं गाथा. २. 'त्रिभेदाव्यङ्ग्यापेक्षया' क-ख. ३. 'नैततोदीया सह' क. 'नैतनेदीयः सहृ' ख. ४. 'काव्यतयवहारः' ग.
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258