Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 255
________________ २४६ काव्यमाला 1 . .. . गतमपि पूर्वच्छायया वस्तु तादृक् सुकविविक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्द्यतां नैव याति । तदित्यं स्थिते प्रतायन्तां वाचो निमितविविधार्थामृतरसा न वादः कर्तव्यः कविमिरनवद्ये स्वविषये । परखादानेच्छाविरतमनसो वस्तु सुकवेः सरखत्येवैषा घटयति यथेष्टं भगवती ॥ १७ ॥ सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा परखादानेच्छाविरतमनसः सुकवेः सरखत्येषा भगवती यथेष्टं घटयति वस्तु । येषां सुकृतिनां कवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचितार्थपरिग्रहनिःस्पृहाणां खव्यापारो न कचिदुपयुज्यते । सैव भगवती सरखती खयमभिमतमर्थमाविर्भावयति । एतदेव हि महाकवित्वं महाकवीनामित्योम् । नित्याक्लिष्टरसाश्रयोचितगुणालंकारशोभाहतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्व समासाद्यते । काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ॥ सत्काव्यतत्त्वविषयं स्फुरितप्रसुप्त कल्पं मनःसु परिपक्वधियां यदासीत् । तयाकरोत्सहृदयोदयलाभहेतो रानन्दवर्धन इति प्रथिताभिधानः ॥ इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्दयोतः । समाप्तोऽयं ग्रन्थः। १'सादः' ग. २. 'सविषये' ग. ३. 'एवमिह' क-ख. ४. क-ख-पुस्तकयोरोमित्यस्मादनन्तरं 'इत्यानन्दवर्धनाचार्यविरचिते सहृदयालोके काव्यालंकारे ध्वनिप्रतिपादने चतुर्थ उद्द्योतः समाप्तः' इत्यस्ति तदनन्तरं नित्येत्यादिश्लोकद्वयम्. ५. 'सौख्यदायिनि बुधोद्याने' ग. ६. 'सहृदयालोकनानि काव्यालंकारे' ग.. .

Loading...

Page Navigation
1 ... 253 254 255 256 257 258