Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
४ उद्योतः ]
ध्वन्यालोकः ।
२४५
तत्र पूर्व प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना । यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु कमनीयं शरीरसद्भावे संति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । नहि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् । एतदेवोपपादयितुमुच्यते
तत्त्वस्यान्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ १४ ॥ तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् । एवं तावत्संवादानां वाक्यवेदितानां काव्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी ।
नूतने स्फुरति काव्य वस्तुनि व्यक्तमेव खलु सा न दुष्यति ।। १५ ।। नहि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं शक्यन्ते । तानि तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात् यदपि तदपि रेंम्यं यत्र लोकस्य किंचित्स्फुरितमिदमितीयं बुद्धिरभ्युजिहीते ।
अनुगतमपि पूर्वच्छायया वस्तु ताहक्सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ १६ ॥ यदपि तदपि रम्यं काव्यशरीरं यल्लोकस्य किंचित्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिही स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते तदनु
१. 'अपि ससंवादं काव्य' क-ख. २. 'समुदायरूपाणां वाक्यार्थानां ग. ३. 'योक्ष्यते' ग. ४. 'काव्यंग.
२२ ध्व० लो•
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258