Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२४४
काव्यमाला।
... यत्प्रदर्शितं प्राक ..
. भूनैव दृश्यते लक्ष्ये न तच्छक्यमपोहितम् ॥ ८॥ · तत्तु भाति रसांश्रयात् । तदिदमत्र संक्षेपेणाभिधीयते सत्कवीनामुपदेशाय
रसभावादिसंबद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिमेदिनी ॥९॥ का गणना कवीनामन्येषां परिमितशक्तीनाम् ।
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः। निबद्धापि क्षयं नैति प्रकृतिर्जगतामिव ॥ १०॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानी परिक्षीणा पदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानी परिहीयते प्रत्युत नवनवाभिर्युत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि
___ संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत् संवादिन्यो मेधाविनां बुद्धयः । किं तु
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥११॥ कमिति चेत्,
संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवंच शरीरिणाम् ॥ १२ ॥ संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किंचिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बः प्रतिबिम्बकल्पम् अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरिणा सदृशम् ।
तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ १३ ॥ १. 'अप्यन्य' ग. २. 'देहवच्च' ग. ३. 'देहवच्च' ग.
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258