Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
४ उद्योतः ]
ध्वन्यालोकः ।
२४१
,
शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः । स्वभावो हायं वाच्यानां चेतनाचेतनानां यदवस्था भेदाद्देश भेदात्काल भेदात्खालक्षण्यलक्षणभेदाच्चानन्तता भवति । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः काव्यार्थः संपद्यते । तथा ह्यवस्थाभेदान्नवत्वं यथा - भगवती पार्वती कुमारसंभवे 'सर्वोपमाद्रव्यसमुच्चयेन इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शंभोर्लोचनगोचरमायान्ती 'वसन्तपुष्पाभरणं वहन्ती' (इत्यादि) मन्मथोपकरणभूतेन भङ्गयन्तरेणोपवर्णिता । सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना 'तां प्राङ्मुखीं तत्र निवेश्य तन्वीं' इत्याद्युक्तिभिर्नवेनैव प्रकारेण निरूपितसौष्ठवा । न च ते तस्य कवेरे कत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते । दर्शितमेव चैतद्विषमबाणलीलायाम् -
'णं अ ताण घडइ ओही ण अ ते दीसन्ति कह वि पुनरुता । जे विब्भमा पिआणं अत्था वा सुकइवाणीणम् ॥'
अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनां तच्चोचितचेतनविषयखरूपयोजनयोपनिबध्यमानमन्यदेव संपद्यते । यथा कुमारसंभव एव पर्वतखरूपस्य हिमवतों वर्णनं पुनः सप्तर्षिप्रियोक्तिषु (ष्व) चेतनतत्खरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं सत्कवीनां मार्गः । इदं च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामवस्था भेदेऽप्यवान्तरावस्था भेदान्नानात्वम् । यथा कुमारीणां कुसुमशरभिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां चाचेतनानां चेतनानां च भावानामारम्भाद्यवस्था भेदभिन्नानामेकैकशः स्वरूपमुपनिबध्यमानमानन्त्यमेवोपयाति । यथा
-4
१. 'चेतनानामचेतनानां च' ग. २. 'न च तेषां घटतेऽवधिर्न च ते दृश्यन्ते कदापि पुनरुक्ताः । ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥' इति च्छाया. ३. 'सुप्रसिद्धम्' ग.
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258