Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 234
________________ ३ उद्द्योतः ] ध्वन्यालोकः । २२५ ब्राच्यत्वेन च संभाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । ऐकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया बाहुल्येन संभवति । यथा— ' स्निग्धश्यामल -' इत्यादौ । स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्गयसंकीर्णत्वं यथा - ' न्यक्कारो हायमेव मे -यदरयः' इत्यादौ । यथा वा 'कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ खः ॥' अत्र लक्ष्यक्रमव्यङ्गस्य वाक्यार्थीभूतस्य व्यङ्गय विशिष्टवाच्याभिधायिभिः पदैः संक्रमिता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्गयस्य 'पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् । बाहुल्येनेति । सर्वत्र काव्ये रसादितोत्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनम् । स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् । एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति — स्वप्रभेदेति । अत्र हीति । लिप्तशब्दादेरतिर-स्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः । एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्गधं प्रत्युदाहरति — गुणीभूतेति । अत्र हीत्युदाहरणद्वयेऽपि । अलक्ष्यक्रमव्यङ्गयस्येति । रौद्रस्य । व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ता । पदैरित्युपलक्षणे - तृतीया । तेन तदुपलक्षितो योऽर्थो व्यङ्गयो गुणीभावेन वर्तते तेन संमिश्रता संकीर्णता । सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकस्य व्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या । तथा हि मे यदरय इत्यादिभिः सर्वैरेव पदार्थैः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते । कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् । पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः । तत्र च गुणीभू-तव्यङ्ग्यतापि योजयितुं शक्या । वाच्यस्यैव क्रोधोद्दीपनत्वात् । दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्यः । इत्यर्थशक्त्यनुरणनरूपता । उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः । एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः । गुणीभूतस्य व्यङ्ग्यस्य प्रधानीभूतस्य च रसस्य विभावादिद्वारतयाभिव्यञ्जनात् । अत एव चेति । यतोऽत्र लक्ष्ये दृश्यते तत इत्यर्थः । १. ‘निश्चये’ क-ख. २. 'कदाचिद्विभिन्नयोरेकश एकव्यञ्जकानु' ग. ३. 'व्यञ्जकत्वं ' क-ख. ४. ' संमिश्रिता' क- ख. १. ‘परलं’ ग. २. ‘शब्दादौ तिरस्कृतवाच्यरसादौ' क-ख. ३. 'एवेति' क- ख.

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258