Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२३२.
काव्यमाला।
दृष्टार्थानामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं खरूपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषांचित्प्रेतिपत्तविशेषसंवेयं जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनचित्तदयुक्तमिति नावधेयतामहति । यतः शब्दानां खरूपभेदस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस्तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावमासनं व्यङ्गयपरत्वं व्यङ्गयविशिष्टत्वं चेति विशेषः । तौ च विशेषौ व्याख्यातुमशक्यौ व्याख्यातौ बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसंभावना तु विवेकावसादगर्भरभसमूलैव । यस्मादनाख्येयत्वं सर्वशब्दार्थगोचरत्वेन न कस्यचित्संभवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसंभवात् । सामन्यसंस्पर्शिविकल्पशब्दगोचरत्वेसति प्रकाशमानत्वं तदनाख्येयमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नविशेषाणामिव न संभवति । तेषां लक्षणकारैयाकृतरूपत्वात् । रत्नविशेषाणां च सामान्यसंभावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषामपि तेषां प्र
'प्रतीति पदवीं' इति वा पाठः । नागरिकया ह्यपरमते अनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति। परुषेति दीप्तेषु रौद्रादिषु । कोमलेति हास्यादौ । तथा—'वृत्तयः काव्यमातृकाः' इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः । यदाह-'कौशिकी श्लक्ष्णनेपथ्या शृङ्गाररससंभवा' इति । इयता 'तस्याभावं जगदुरपरे' इत्यादावभावविकल्पेषु 'वृत्तयो रीतयश्च गताः श्रवणगोचरं तदतिरिक्तः कोऽयं ध्वनिरिति' तत्र कथंचिदभ्युपगमः कृतः कथंचिदूषणं दत्तमस्फुटस्फुरितमिति वचनमनेन इदानीं 'वाचां स्थितमविषये' इति यदूचे तत्तु प्रथमोड्योते दूषितमपि दूषयति सर्वप्रपञ्चकथने हि असंभाव्यमेवानाख्येयवमित्यभिप्रायेण । अक्लिष्टत्व इति । श्रुतिकष्टाद्यभाव इत्यर्थः । अप्रयुक्तस्य प्रयोगो..... पौनरुक्त्यम् । ताविति शब्दगतोऽर्थगतश्च । विवेकस्यावसादोऽभावो निर्विवेकत्वम् । सामान्यस्पर्शी यो विकल्पस्ततोऽयं शब्दो दृष्टान्तेऽपि नास्तीति दर्शयति-रत्नविशेषाणां चेति । ननु सर्वत्र तन्न संवेद्यत इत्याशङ्याभ्युपगमेनेवोत्तरयति-उभयेषामिति । रत्नानां काव्यानां
१. 'लक्षणीयस्वरूपस्यास्य' क-ख. २. 'प्रतिपत्ति' क. 'प्रपिपत्त्य' ख. ३. 'जात्यत्वमेव' क. ४. “एवावभासते' क-ख. ५. 'नामधेयं' ग. ६. 'स्वरूपाश्रयः' ग. ७. 'वाचकलाश्रय' क-ख. ८. 'भासमानं व्यङ्ग्यपरवं व्यङ्ग्यांशविशिष्टत्वं' क-ख. ९. 'निर्भर' ग. १०. 'तु यदा' क-ख. ११. 'कदापि' ग. १२. 'रूपाणाम्' क-ख. १३. 'उभयेषां प्रतीतिविशेष' ग.
१. 'स्फुरितवादिति' ग. २. 'यस्य तस्य निर्विवेकलम्' ग. ३. 'यः' क-ख.
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258