Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 240
________________ .. २३१ ३ उक्ष्योतः] ध्वन्यालोकः । एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते । संख्यातुं दिमात्रं तेषामिदमुक्तमसामिः ॥५०॥ अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिमात्रं कथितम् । इत्युक्तलक्षणो यो ध्वनिर्विवेच्या प्रयत्नतः सद्भिः। सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥५१॥ उक्तखरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियंतमेव काव्यविषये परां प्रकर्षपदवीमासादयन्ति । अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । __ अशक्नुवद्भिाकर्तु रीतयः संप्रवर्तिताः ॥५२॥ एतद्धृनिवर्णनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशनुवद्भिः प्रतिपापयितु वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासीदिति तदत्र स्फुटतया संप्रदर्शितमित्यन्येन रीतिलक्षणेन न किंचित् । शब्दतत्त्वाश्च याः काश्चिदर्थतत्वयुजोऽपराः । वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽसिन्काव्यलक्षणे ॥ ५३॥ अस्मिन्व्यङ्गयव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसंबद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामसंकीर्णालंकारसंकीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् । एतदुपसंहरति-एपमिति । स्पष्टम् । अथ 'सहृदयमनःप्रीतये' इति यत्सूचितं तदानीं (न) शब्दमात्रमपि तु नियूंढमित्याशयेनाह–इत्युक्तेति । यः प्रयत्नतो विवेचित एवमादिकलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणं कर्तुमशक्नुवद्भिरलंकारकारै रीतयः प्रवर्तिता इत्युत्तरकारिकया संबन्धः । अन्ये तु यःशब्दस्थाने 'अयं' इति पठन्ति । प्रकर्षपदवी निर्माणे बोधे वेति भावः । व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः-अस्फुटं कृत्वा स्फुरितमिति । (लक्षिता इति) रीतिर्हि गुणेष्वेव पर्यवसायिता । यदाह-विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे 'शृङ्गार एव मधुरः' इत्यत्रेति । प्रकाशन्त इति । अनुभवसिद्धतां काव्यजीविखे प्रयान्तीत्यर्थः । रीतिपदवीमिति । तद्वदेव रसपर्यवसायिखात् । १. 'ते खयमुत्प्रेक्षणीयाः' क-ख. २. 'नियमेनैव काव्य' क-ख. ३. 'इति लक्ष्यते तत्र' ग. ४. 'संप्रदर्शितेनान्येन' ग. ५. 'प्रतिपत्तिपदवीं' ग.

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258