Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
४ उद्द्योतः ]
ध्वन्यालोकः ।
२३५
इत्येवमादिषु लोकेषु सत्खप्यर्थान्तरसंक्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् । (विवेक्षितान्यपरवाच्यस्यापि उक्तप्रकारसमाश्रयेण नवत्वम् ) तत्रालक्ष्यक्रमप्रकारसमाश्रयेणान्यथात्वम् । यथा
'निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधू
र्बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता ।
वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः
साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥'
त्यस्य श्लोकस्य
'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' इत्यादिषु सत्स्वपि नवत्वम् । यथा वा – 'तरङ्गभ्रूभङ्ग -' इत्यादिश्लोकस्य 'नानाभङ्गिभ्रमद्भूः' इत्यादिश्लोकापेक्षयान्यत्वम् ।
दिशानयानुसर्तव्यो रसादिबहुविस्तरः ।
मितोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ ३ ॥ बहुविस्तारो ऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गे यथाखं विभावानुभाव मेदकलनया यथोक्तं प्राक् स सर्व एवानया दिशानुसर्तव्यः । यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्रसंख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं वि भावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्र विचारावसरे । गाथा चात्र कृतैव महाकविना
1
1
१. कोष्ठकान्तः स्थितः पाठः कख पुस्तकयोर्नास्ति. २. 'अस्य' ग. ३. 'याति' क-ख. ४. ‘प्रभेदकतया' ग. ५. 'चैषामेकैक' ग. ६. ' तथा च गाथाकृतात्र महा' क. ख.
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258