Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 246
________________ ४ उद्योतः ] अस्य हि गाथार्थस्य 'उदिह ... आभोआ जह जह थणआ विणन्ति बालाणम् । तह तह लद्धावासो व्व मम्महो हिअअमाविसइ ॥' एतद्द्वाथार्थेन न पौनरुक्त्यम् । यथा वा – 'वाणिअअ हत्थिदन्ता - ' इत्यादिगाथार्थस्य । 'करिणीवेहव्वअरो मह पुत्तो एककाण्ड विणिवाई | असोहाऍ तह कहो जह कण्डकरण्डअं वहइ ॥' एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव । ध्वन्यालोकः । २३७ यथा च व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुपपद्यते तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते खयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनः पुनरुक्तमपि सारतयेदमुच्यते— व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे संभवत्यपि । रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥ ५ ॥ अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रे संभवत्यपि कविरपू लाभार्थे रसादिमय एकस्मिन्व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत । रसभावतदाभासरूपे हि व्यंङ्गये तद्व्यञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं संपद्यते । तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनः पुनरभिहिता अपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत् यथा रामायणे यथा वां महाभारते । रामायणे हि करुणो रसः स्वयमादिकंविना सूत्रितः 'शोकः श्लोकत्वमागतः' इत्येवंवादिना । निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव खप्रबन्धमुपरचयता । महाभारतेऽपि शास्त्र काव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसाव " १. अस्फुटेयं गाथा. २. 'करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती । हतनुया तथा कृतो यथा काण्डकरण्डकं वहति ॥' इति च्छाया. ३. 'इत्येवमादिषु सत्स्व' क-ख. ४. 'अपृथगर्थत्वं' ग. ५. 'एतस्मिन्' क ख ६. 'विचित्रे शब्दानां' क-ख. ७. 'एतस्मिन् क- ख. ८. 'यथामति' ग. ९. 'च' क- ख. १०. 'मुनिना सूचितः ' ग. ११. 'शास्त्ररूप पूर्वका व्यावस्थान्वयिनि' ग. ·

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258