Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 245
________________ २३६ काव्यमाला । 'अतहट्ठिए वि तहसंठिए व्व हिअअम्मि जा णिवेसेह । अत्यविसेसे सा जअइ विकडकइगोअरा वाणी ॥' . तदित्यं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् । एतदेवोपपादयितुमुच्यते दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥४॥ तथा विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्गयप्रकारसमाश्रयेण नवत्वम् । यथा-'धरणीधारणायाधुना त्वं शेषः' इत्यादौ 'शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलजितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥' इत्यादिषु सत्खपि तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम् । यथा-'एवंवादिनि देवर्षों' इत्यादिश्लोकस्य 'कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥' इत्यादिषु सत्खप्यर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम् । यथा-'सजेइ सुरहिमासो-' इत्यादेः _ 'सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥' इत्यादिषु सत्खप्यपूर्वत्वमेव ।। अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयत्य कविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नशरीरत्वे सति नवत्वम् । यथा 'साअरविइण्णजोव्वणहत्थालम्ब समुण्णमन्तेहिं । अब्भुट्ठाणम्मिव मम्महस्स दिण्णं तुह थणेहिं ।' १. 'अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति । अर्थविशेषान्सा जयति विकटकविगोचरा वाणी ॥' इति च्छाया. २. 'व्यङ्ग्यरूप' ग. ३. 'बिभृयाः क्षितिम्' क-ख. ४. 'श्रयणेन' ग. ५. 'प्रौढोक्तिमात्र' ग. ६. 'सादरवितीर्णयौवनहस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥' इति च्छाया.

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258