Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 243
________________ २३४ काव्यमाला। चतुर्थ उझ्योतः। एवं ध्वनि सप्रपञ्चं विप्रतिपत्तिनिरासार्थ व्युत्पाद्य तयुत्पादने प्रयोजनान्तरमुच्यते ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्या प्रदर्शितः। अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥१॥ य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् । कथमिति चेत् ।। अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥२॥ अतो हि ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमेऽपि यथा 'स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥' इत्यस्य 'सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः ।। नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥' इत्येवमादिषु श्लोकेषु सत्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते । तथा 'यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी । श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥' इत्यस्य 'खतेजःक्रीतमहिमा केनान्येनातिशय्यते । महद्भिरपि मातङ्गैः सिंहः केनाभिभूयते ॥' १. चतुर्थोझ्योतस्य टीका नोपलभ्यते. २. 'अध्वा' ग. ३. 'श्रयेण' क-स. ४. 'पूर्वोकानु' क.ख. ५. 'तथाभिहतहस्ततर्पितपलाशी' ग.. ६. 'अस्स' ग.

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258