Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 242
________________ ३ उक्ष्योतः ] ध्वन्यालोकः । .२३३ तिपत्तविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत्त्वनिर्देश्यत्वं सर्वलक्षणविषये बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादर्शनादशब्दार्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तम् 'अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं लक्षणं तु साधीयोऽस्य यथोदितम् ॥' इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उझ्योतः । च । ननु...र्थ शब्दाः स्पृशन्तीत्यपेत्यनिर्देशवदेकमित्या..................वस्थानामुक्तमिति चेदत्राह-यत्त्विति । एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिखरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः । ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तमायां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तयाख्यातम् । उक्तमिति संग्रहाथ मयैवेत्यर्थः । अनाख्येयांशकाव्याभासो विद्यते यस्मिन्काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति संबन्धः । अत्र हेतुः-निर्वाच्यार्थतयेति । निर्विभज्य वक्तुमशक्यवादित्यर्थः । अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नर्थवं परिकल्प्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे तत्तु क्लिष्टम् । हेतुश्च साध्यनिष्ठ इत्युक्तव्याख्यानमेवेति शिवम् । किं लोचनं विनालोको भाति चन्द्रिकयापि हि । तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥ काव्यालोक...........................। ..................कृतार्थान्संविधास्यति ॥ आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् । त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् ॥ इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोक(ध्वन्यालोक) लोचने ध्वनिसंकेते तृतीय उड्योतः । १. 'च' क-ख. २. 'सर्वखलक्षणविषयं' क-ख. ३. 'घटनात्' क-ख. ४. 'च' ग. २१ ध्व. लो.

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258