Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 238
________________ ३ उद्योतः ] ध्वन्यालोकः । २२९ अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्वलंकारान्तराणि । संसृष्टालंकारान्तरसंकीर्णो ध्वनिर्यथा 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' मनुपयोगि यतस्तन्मदेन कलमधुरमाकर्णनीयम् । प्रत्यूषेष्विति । प्रभातस्य तेथाविधस्यैवान वसरत्वाद्बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति । स्फुटितान्यवर्तमानमकरन्दभरेण ( तथा स्फुटितानि) विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तन या मैत्री अन्यासङ्गावियोगे परस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः । स्त्रीणामिति । सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति स सुरतकृतां ग्लानिं तान्तिं हरति । अथ च तदीयां ग्लानिं पुनः संभोगाभिलाषोद्दीपनेन हरति । न च प्रसत्यभूततया (?) अपि त्वङ्गानुकूलो हृद्यस्पर्शः हृदयान्तर्भूतश्च । प्रियतमे तद्विषये प्रार्थनार्थ कारयति । प्रियतमोऽपि तत्पवनस्पर्शघ्र प्रार्थनाचाटूनि करोतीति तेन तथा कार्यत इति । परस्परानुरागप्राणशृङ्गारसर्वस्वभूतोऽसौ पवनः । युक्तं चैतत्तस्य यतः सिप्रापरिचितोऽसौ वात इति नागरिको नत्वविदग्धो ग्राम्यप्राय इत्यर्थः । प्रियतमोऽपि रतान्तेऽङ्गानुकूलः संवाहनादिप्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति । कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति । चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सौरभपरिचयस्तेन कषाय उपरक्तो भवति । अङ्गेषु चतुःषष्ट्या मालिङ्गने-: ( नादि ) ष्वनुकूलः । एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनोऽपि तथाविधः सोऽवश्यमभिगन्तव्यो देश इति मेघदूते मेघं प्रति कामिन इयमुक्तिः । उदाहरणे लक्षणं योजयति - मैत्रीपदमिति । हिशब्दोऽनन्तरं पठितव्य इत्युक्तमेव । अलंकारान्तराणीति । उत्प्रेक्षा स्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः । एवमियता 'सगुणीभूतव्यङ्ग्यैः सालंकारैः सहप्रभेदैः खैः । संकरसंसृष्टिभ्यां' इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य 'पुनरपि' इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव - संसृष्टेति । पुंनःशब्दस्यायमर्थः— न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसंकरौ विवक्षितौ यावत्तेषामन्योन्यमपि खप्रभेदानां स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा संकीर्णानां संसृष्टानां च ध्वनीनां संकीर्णत्वं संसृष्टत्वं च दुर्लक्ष्यमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालंकारस्यालंकारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ । तदस्मिन्मेदचतुष्टये प्रथमं मेदमुदाहरति — दन्तक्षतानीति । बोधिसत्त्वस्य स्वकिशोरभक्षण प्रवृत्तां सिंहीं निजशरीरं प्रयच्छतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलकः परार्थसंपत्ति १. ‘तथाविधावसर’ क-ख. २. 'कथा' क-ख. ३. ' च ध्वनीनां' क ख - पुस्तकयो४. 'वितीर्णवतः' ग. र्नास्ति.

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258