Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उयोतः] ध्वन्यालोकः ।
२२७ . 'या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा . .. ___दृष्टिा परिनिष्ठितार्थविषयोन्मेषा चे वैपश्चिती।। ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥'
खेन इति द्वितीयोझ्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव।''चलापाजां दृष्टिं' इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुप्राहकलं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः । 'उप्पह जाया' इति गाथायां परवभावोक्तिर्वा ध्वनिति प्रकरणायभावे एकतरग्राहकं प्रमाणं नास्ति । यद्यप्यलंकारो रसमवश्यमनुगृह्णाति तथापि 'नातिनिर्वहणैषिता' इति यदभिप्रायेणोक्तं तत्र संकरासंभवात्संसृष्टिरेवालंकारेण रसध्वनेः । यथा'बाहुलतिकापाशेन बद्ध्वा दृढं' इत्यत्र । प्रभेदान्तराणामपीति रसादिध्वनिव्यतिरिक्तानाम् । व्यापारवतीति । निष्पादनप्राणो हि रस इत्युक्तम् । तत्र विभावादियोजनात्मिका वर्णना। ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः तेन सततयुक्तो रसादिरिति रस्यमानतासारान्स्थायिभावान्रसयितुं रस्यमानतापत्तियोग्यान्कर्तुम् । काचिदिति लो.."त्रापति बोधावस्थात्यागेनोन्मीलयन्ती । अत एव ते कवयः वर्णनायोगात् । नवेति क्षणेक्षणे नूतनैचित्र्यैर्जगन्त्यासूत्रयन्ती । दृष्टिरिति प्रतिभारूपा । तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि (३) । रैसे यो विरोधालंकारोऽत एव नवा तदनुगृहीतश्च ध्वनिः । तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसंभवाभावात् । न वान्यपरम् । अपि वर्थान्तरे ऐन्द्रियकविज्ञानाभासोल्लसिते प्रतिभानलक्षणेऽर्थे संक्रान्तम् । संक्रमणे च विरोधोऽनुग्राहक एव । तद्वक्ष्यति'विरोधालंकारेण' इत्यादिना । या चैवंविधा दृष्टिः परिनिष्ठितोऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः । तथान्येन परिनिश्चि(ष्ठि)ते विषये उन्मेषः सम्यगवबोधकारी अपूर्वप्रमाणलाभलक्षणो यस्याः। तथा परिनिश्चिते लोकप्रसिद्धेऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा। विपश्चितामियं वैपश्चिती। (ते अवलम्ब्येति।) कवीनामिति । वैपश्चितीतिवचनेन नाहं कविर्न पण्डित इत्यात्मनोऽनौद्धत्यं ध्वन्यते । अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः । ते द्वे अपीति । न कया दृष्ट्या सम्यङिवर्णनं निर्वहति । विश्वमित्यशेषम् । अनिशमिति पुनःपुनरैनवरतं निर्वर्णयन्तो निःशेषेण वर्णयन्तो वर्णनया तथा निश्चयार्थं वर्णयन्तः । इदमित्थमिति परामर्शानुमानादिना निर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो निर्वर्णयन(नम्)। यच निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यडिवर्णितं भवति । वयमिति । मिथ्यावदृष्ट्याहरणप्रयासव्यसनिन इत्यर्थः । श्रान्ता इति । न केवलं सारं लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः । चशब्दस्तुशब्दस्यार्थे । अब्धिश
१. 'ग्रसयितुं' ग. २. 'परिनिश्चितार्थ' क-ख. ३. 'अस्ति' ग. १. 'रूपकस्य' क-ख. २. 'गृह्णाति भूयसा' ग. ३. 'रसेभ्यो विरोधास्त एव' क-ख. ४. 'अविरतं' ग. ५. 'निवेदनं' क. ६. 'यत्तु' ग. ७. 'मिथ्या तदृष्ट्या' क..
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258