Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 237
________________ ૨૨૮ 'काव्यमाला। इत्यत्र विरोधालंकारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य संकीर्णत्वम् । वाच्यालंकारसंसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित्पदानि वाच्यालंकारभाजि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा 'दी/कुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिगावातः प्रियतम इव प्रार्थनाचाटुकारः ॥' यनेति योगनिद्रया वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः । श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति । बद्भक्तीति । वमेव परमात्मस्वरूपो विश्वसारस्तस्य भक्तिः शब्दादिपूर्वकमुपासनाक्रम(ज)स्तदावेशस्तेन तुल्यमपि न लब्धमास्तां तावत्तजातीयम् । ऐवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तति मन्वानस्येयमुक्तिः । सकलप्रमाणपरिनिश्चितदृष्टादृष्टविषयविशेषजं यत्सुखं यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतोऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते । तदानन्दविग्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः। लौकिकं तु सुखं ततोऽपि निकृष्टप्रायं बहतरदुःखानुषङ्गादिति तात्पर्यम् । तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः । दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालंकारो वाश्रीयताम् । अन्धपदन्यायेन दृष्टिपदेऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्। प्रकारद्वयेनापि हृद्यत्वात् । न च पूर्वत्राप्येवं वाच्यम् । नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् । एवं संकर त्रिविधमुदाहृत्य संसृष्टिमुदाहरति-वाच्येति। सकलवाक्ये हि यद्यलंकारोऽपि व्य. झ्यार्थोऽप्रधानं तदानुग्राह्यानुग्राहकसंकरस्तदभावे वसंगतिरित्यलंकारेण वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः । एतद्गीकृत्य सावधारणमाह-पदापेक्षयैवेति । यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते-यत्र हीति । यस्माद्यत्र कानिचिदलंकारभाजि कानिचिद्धनियुकानि । यथा दीर्घाकुर्वन्नित्यत्रेति । तथाविधपदापेक्षयैव वाच्यालंकारसंसृष्टत्वमित्यावृत्त्या पूर्वग्रन्थेन संबन्धः कर्तव्यः । अत्र हीति । अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थसंगतिः । दी(कुर्वन्निति । सिप्रावातेन हि दूरमप्यसो शब्दो नीयते। तथा सुकुमारपवनस्पर्शजातहषोचिरं कूजन्तीति । तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् । पट्विति । तथासौ सुकुमारो वायुर्येन तजः शब्दः सारकूजितमपि नाभिभवति तत्सब्रह्मचारी तदेव दीपयति । न च दीपनं तदीय १. 'असंकीर्णत्वम्' ग. २. 'सारसीना' ग. ३. 'शिप्रा' ग. . १. 'खभावः' क-ख. २. 'अतः' क-ख. ३. 'संधानस्य' क-ख. ४. 'निकृष्टतमप्रायं' ग. ५. 'पर्यायेण द्वाभ्यामपि वा' क-ख-पुस्तकयो स्ति. ६. 'हश्चिरं कूजितं' क-ख.

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258