Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 239
________________ २३० काव्यमाला । अत्र हि समासोक्तिसंसृष्टेन विरोधालंकारेण संकीर्णस्यालक्ष्यक्रमव्ययस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालंकारसंसृष्टत्वं च ध्वनेर्यथा 'अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु । सोहइ पसारिअगिआण णच्चिअं मोरवन्दाणम् ॥' अत्र छुपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसटत्वम् । जेनानन्दभरेण यत्र । रक्ते रुधिरे मनोऽभिलाषो यस्याः । अनुरक्तं च मनो यस्याः। मुनयश्चोरोधितमदनावेशाश्चेति विरोधः । जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः । समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः । दयावीरस्येति दयाप्रयुक्तलात् । अत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः (१)। वीरश्चात्र रसः। उत्साहस्यैव स्थायित्वादिति भावः । दयावीरशब्देन वा शान्तमुपदिशति । सोऽत्र रसः संसृष्टालंकाराणा(१)मनुगृह्यते । समासोक्तिमहिना ह्ययमर्थः संपद्यते-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा वं परार्थसंपादनाय खशरीरदान इति करुणातिशयोऽनुभावविभावसंपदोद्दीपितः। द्वितीयं भेदमुदाहरति-संसृष्टेति । अभिनवं हृद्यं पयोदानां मेघानां रसितं येषु दिवसेषु । तथाविधपथिकान्प्रति श्यामायितेषु मोहजनकलादात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः । शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् । अभिनवपयोधररसितेषु पथिकसमाजेषु सत्सु मयूरवृन्दा(वना)नां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृतं शोभते । पथिकान्प्रति श्यामा इवाचरन्तीति प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसमाजेष्विति कर्मधारयस्य स्पष्टवाद्रूपकम् । ताभ्यां ध्वनेः संकर इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तु शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् । तथाहि-व्याघ्रादेराकृतिगणले पथिकसमाजेष्वित्युपमारूपकाभ्यां संदेहास्पदलेन संकीर्णाभ्यामभिनवप्रयोगे च रसिकेष्विति.. मिति... शब्दशक्त्युद्भवस्तस्य संसर्गमात्रमनुग्राहकवाभावात्। 'पहिअसामाइएसु' इत्यत्र तु पदे संकीर्णाभ्यां शब्दशक्तिमूलस्य ध्वनेः संकीर्णवमेकव्यञ्जकानुप्रवेशादिति संकीर्णालंकारसंसृष्टः । १. 'प्रकाशनेन' क-ख. २. 'भूतत्वम्' क-ख. ३. 'अभिनवपयोधररसितेषु पथिकश्यामायितेषु दिवसेषु । शोभते प्रसारितग्रीवाणां(गीतानां)नृत्तं मयूरवृन्दानाम् ॥' इति च्छाया. १. 'सारानुसारी' क-ख. २. 'अभिनवप्रयोगे च ग्राह्यलाभावात्' क-ख..

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258